________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४ तत्त्वार्थवृत्तौ
[४।१९ तयोरुपरि आरणाच्युतौ। तथा नवसु प्रैवेयकेषु वैमानिका देवा भवन्ति । 'नवसु' इति पृथग्विभक्तिकरणात् नवौवेयकानन्तरं नवानुदिशवैमानिका भवन्तीति ज्ञातव्यम् । तदनन्तरं विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धिपश्चानुत्तरवैमानिका भवन्ति । सर्वार्थसिद्धिशब्दस्य पृथक् विभक्तिदानं 'सर्वनामोत्तमत्वसूचनार्थं नामप्रकृतिषु तीर्थकरत्वञ्चेति यथा ।
अथ विस्तार:-योजनलक्षोन्नतः किल मेरुपर्वतः। तन्मध्ये एक योजनानां सहस्रं भूमिमध्ये वर्तते । नवनवतियोजनसहस्राणि बहिःस्थितोऽस्ति । तन्मध्ये चत्वारिंशद्योजनान्युन्नता तच्चूलिका वर्तते। सा चूलिका २ऋतुविमानं वालान्तरमात्रमप्राप्य स्थिता। मेरोरधस्तात् अधोलोकः । मेरुप्रमाणबाहुल्यः तिर्यकलोकः। मेरोरुपरि सर्वोऽपि ऊर्ध्वलोकः।
सौधम्मैशौनयोः सम्बन्धीनि एकत्रिंशत् पटलानि । तन्मध्ये प्रथमम् ऋतुपटलम् । १० ऋतुपटलस्योपरि मध्यप्रदेशे ऋतुविमानं नाम इन्द्रकं वर्तते । इन्द्रकमिति कोऽर्थः ? मध्यवि
मानम् । तत्प्रथममिन्द्रकं पश्चचत्वारिंशल्लक्षयोजनविस्तृतं तस्मादिन्द्रकाच्चतुर्दिक्षु चतस्रो विमानश्रेणयो निर्गताः प्रत्येकं द्विषष्टिविमानसङ्ख्याः । चतुर्विदितु पुष्पप्रकीर्णविमानानि वर्तन्ते । एतस्मात् ऋतुपटलादुपरि एककस्य पटलस्य एकैकस्यां श्रेणौ एकैकं विमानं हीनं भवति यावत्
प्रभानामकमन्त्यमेकत्रिंशं पटलं वर्तते । प्रभापटलस्योपरि मध्यभागे प्रभासंज्ञं यदिन्द्रकविमानं १५ वर्तते तस्य इन्द्रकस्य चतुर्दिक्षु चतस्रो विमानश्रेणयः सन्ति, ताः प्रत्येक द्वात्रिंशद्विमान सङ्ख्या वर्तन्ते । तासां चतस्मृणां विमानश्रेणीनां मध्ये या विमानश्रेणिः दक्षिणां दिशं गता तस्यां श्रेणौ यदृष्टादशं विमानं वर्तते तद्विमानं सौधर्मेन्द्राधिष्ठानम् । उत्तरश्रेणौ तु यदष्टादशं विमानमस्ति तस्मिन् विमाने ऐशानेन्द्रो वसति । द्वयोरपि विमानयोः प्रत्येकं त्रयः प्राकाराः ।
तेषु प्राकारेषु मध्ये बाह्यप्राकाराभ्यन्तरे अनीकानि पारिषदाश्च देवा वसन्ति । मध्यप्राकारा२० भ्यन्तरे सचिवदेवा वसन्ति । आभ्यन्तरप्राकाराभ्यन्तरे इन्द्रो वसति । एवं सर्वत्र इन्द्रादीनां
स्थितियुक्तिर्ज्ञातव्या । पूर्वदक्षिणपश्चिमतिस्रः (मास्तिस्रः) श्रेणयः अग्निकोणनैऋत्यकोणयोः पुष्पप्रकीर्णकानि सौधर्मस्वर्ग उच्यते। उत्तरश्रेणिरेका वायुकोणेशानकोणयोः पुष्पप्रकीर्णविमानानि ऐशानस्वर्ग उच्यते । एवम् एकत्रिंशत्पटलेष्वपि विभजनीयम् ।
ततः परं "सानत्कुमारमाहेन्द्रनामानौ स्वर्गों वर्तेते। तयोः पटलानि सप्त भवन्ति । २५ तत्र प्रथमं पटलमञ्जनं नाम । तस्य पटलस्य मध्यप्रदेशे अञ्जनं नाम इन्द्रकविमानं वर्तते।
तञ्चतुर्दिक्षु चतस्रो विमानश्रेणयो निर्गताः प्रत्येकम् एकत्रिंशद्विमानाः । प्रदिक्षु च चतमृध्वपि पुष्पप्रकीर्णकविमानानि वर्तन्ते । ततः परम् एककस्य पटलस्यकैकस्यां श्रेणावेकैकं विमानं हीनं भवति । तेन सप्तमपटले इन्द्रकविमानात् चतुर्दिक्षु चतस्रो विमानश्रेणयः पञ्चविं.
शतिविमानाः प्रत्येकं भवन्ति । तन्मध्ये दक्षिणश्रेणौ पञ्चदशं स्वर्गविमानं सानत्कुमारेन्द्रो ३० भुनक्ति। उत्तरदिशि तु पश्चदशं कल्पविमानं माहेन्द्रः प्रतिपालयति ।
१ सर्वमानोत्तम- ता० । २ ऋजुवि- आ०, ब०, द०, ज० । ३ -शानस- आ०, द०, ज०। ४ ऋतप-ता० | ऋजुप- आ०, २०, ज०। ५ -क्षवि- ता०,व०। ६ -न्ति स्म मआ०, ९०, ब०। ७ सनत्कु- आ०, द०, ब०, व., ज० |
For Private And Personal Use Only