________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४११९] चतुर्थोऽध्यायः
___ १६३ सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापिष्टशुक्रमहाशुक्रशतारसहस्रारेवानतप्राणतयोरारणाच्युतयोर्नवसु |वेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च ॥ १९ ॥
सुधर्मा नाम्नी देवसमा वर्तते सा विद्यते यस्मिन्नसौ सौधर्मः स्वर्गः। तत्स्वर्गसाहचर्यात् इन्द्रोऽपि सौधर्मः । ईशानो नाम इन्द्रः स्वभावात् , ईशानस्य निवासः स्वर्ग ऐशानः। ५ ऐशानस्वर्गसाहचर्यात् शक्रोऽप्यशानः । सनत्कुमारो नाम जिष्णुः स्वभावात् , तस्य निवासः स्वर्गः सानत्कुमारः। सानत्कुमारस्वर्गसाहचर्यात् मरुत्वानपि सानत्कुमारः। महेन्द्रो नाम मघवान् स्वभावात् , तस्य निवासः स्वर्गो माहेन्द्रः । माहेन्द्रस्वर्गसाहचर्यात् बिडौजा अपि माहेन्द्रः । ब्रह्म नाम आखण्डलः स्वभावात् , तस्य निवासः स्वर्गोऽपि ब्रह्मा । ब्रह्मस्वर्गसाहचर्यात् पाकशासनोऽपि ब्रह्मा । ब्रह्मोत्तरनामा ऋभुक्षा स्वभावात् , तस्य निवासः स्वर्गो ब्रह्मोत्तरः । ब्रह्मोत्तर- १० स्वर्गसाहचर्यात् सहस्राक्षोऽपि ब्रह्मोत्तरः । लान्तवो नाम मेघवाहनः स्वभावात् , तस्य निवासः स्वर्गः लान्तवः। लान्तवस्वर्गसाहचर्यात् तुराषाडपि लान्तवः। कापिष्टो नाम दुश्च्यवनः स्वभावात् , तस्य निवासः स्वर्गः कापिष्टः । कापिष्टस्वर्गसाहचर्यात् सङ्क्रन्दनोऽपि कापिष्टः । शुक्रो नाम नमुचिसूदनः स्वभावात् , तस्य निवासः स्वर्गः शुक्रः । शुक्रस्वर्गसाहचर्यात् स्वाराडपि शुक्रः। महाशुक्रनामा हरिहयः स्वभावात् , तस्य निवासः स्वर्गः महा- १५ शुक्रः । महाशुक्रस्वर्गसाहचर्यात् जम्भभेद्यपि महाशुक्रः । शतारनामा शचीपतिः स्वभावात् , तस्य निवासः स्वर्गः शतारः। शतारस्वर्गसाहचर्यात् बलारातिरपि शतारः। सहस्रारनामा सुरपतिः स्वभावात् , तस्य निवासः "स्वर्गोऽपि सहस्रारः। सहस्रारस्वर्गसाहचर्यात् वास्तो:पतिरपि सहस्रारः। आ समन्तात् सर्वज्ञचरणकमलेषु नतः आनतो वृषा स्वभावात् , तस्य निवासः स्वर्गः आनतः । आनतस्वर्गसाहचर्यात् वासवोऽपि आनतः। प्रकर्षेण आ २० समन्तात् सर्वज्ञचरणकमलेषु नतः प्राणतः वत्री स्वभावात् , तस्य निवासः स्वर्गः प्राणतः । प्राणतस्वर्गसाहचर्यात् गोत्रभिदपि प्राणतः । गोत्राणि जिनसहस्रनामानि भिनत्ति अर्थपूर्व जानातीति गोत्रभित् , न तु पर्वतपक्षच्छेदकत्वात् पर्वतानां पक्षसद्भावाभावप्रतीतेः। आ समन्तात् रणः शब्दो यस्य स आरणः प्रसिद्धनामकः, आरणस्य निवासः स्वर्गोऽपि आरणः । आरणस्वर्गसाहचर्यात् सूत्रामाऽपि आरणः । न धर्माचच्युतः अच्युतः शतमन्युः स्वभावात् , २५ तस्य निवासः स्वर्गः अच्युतः। अच्युतस्वर्गसाहचर्यात् दुश्च्यवनोऽपि अच्युतः। ____ उपर्युपरि इति वचनात् सिद्धान्ताऽपेक्षया व्यवस्था भवति । कासौ व्यवस्था ? पूर्वी सौधम्र्मेशानकल्पो, तयोरुपरि सानत्कुमारमाहेन्द्रौ, तयोरुपरि ब्रह्मलोकब्रह्मोत्तरौ, तयोरुपरि लान्तवकापिष्टौ, तयोरुपरि शुक्रमहाशुक्रौ, तयोरुपरि शतारसहस्रारौ, तयोरुपरि आनतप्राणतो,
१ -न् सः सौ- आ०, द०, ज०। २ ब्रह्म आ०, द०, ज०, व० । ३ ब्रह्मनाम आखण्डला आ०, द०, ज०। ४ -क्षा च स्व- आ० । -क्षा तस्य ता०। ५ स्वर्गः स- ता, व०। ६ -चरणेषु आ०, द०, ज०, व० ।
For Private And Personal Use Only