________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२ तत्त्वार्थवृत्तौ
[४।१६-१८ अथेदानी चतुर्थस्य निकायस्य सामान्येन संज्ञां निरूपयन्ति
वैमानिकाः ॥१६॥ विशेषेण आत्मस्थान पुण्यवतो जीवान् मानयन्ति यानि तानि विमानानि । विमानेषु भवा ये ते वैमानिकाः। अत ऊर्ध्वं ये वर्णयिष्यन्ते ते देवा वैमानिकसंज्ञा भवन्ति इत्यधिकारसूत्रमिदं ज्ञातव्यम् । तानि विमानानि त्रिप्रकाराणि भवन्ति-इन्द्रकविमानानि श्रेणिविमानानि प्रकीर्णकविमानानि चेति । यानि इन्द्रवत् मध्यस्थितानि तानि इन्द्रकविमानानि । आकाशप्रदेशश्रेणिवत् यानि विमानानि चतुर्दिक्षु स्थितानि तानि श्रेणिविमानानि । प्रकीर्णकुसुमवत् यत्र तत्र विक्षिप्तपुष्पाणीव यानि विमानानि प्रदिक्षु स्थितानि तानि पुष्पप्रकीर्णकानि ।
अत्र विशेषः-जैनचैत्यालया ये शाश्वता वर्तन्ते विमानेषु च ये देवप्रासादाः सन्ति ते सर्वेऽपि १० यद्यप्यकृत्रिमा वर्तन्ते तथापि तेषां मानं मानवयोजनक्रोशादिकृतं ज्ञातव्यम्। अन्यानि
शाश्वतस्थानानि प्रमाणयोजनादिमिर्मातव्यानि इति परिभाषेयम् । परिभाषेति कोऽर्थः ? अनियमे नियमकारिणी परिभाषा। अथेदानी वैमानिकानां द्वैविध्यसूचनार्थ सूत्रमिदमाहुराचार्य्याः
कल्पोपपन्नाः कल्पातीताश्च ॥ १७॥ १५ कल्पेषु षोडशषु स्वर्गेषु उपपन्नाः सम्बद्धाः कल्पोपपन्नाः कल्पेभ्योऽतीता अतिक्रान्ता
उपरितनक्षेत्रवर्तिनो नवप्रैवेयकदेवा नवानुदिशामृताशनाश्च पञ्चानुत्तरनिवासिनो निर्जराश्च त्रिप्रकारा अपि अहमिन्द्राः कल्पातीताः कथ्यन्ते । ननु भवनवासिषु व्यन्तरेषु ज्योतिष्केषु च इन्द्रादीनां कल्पनं वर्तते तेऽपि कल्पोपपन्नाः कथन्नोच्यन्ते ? इत्याह-सत्यम् । यद्यपि तेषु
इन्द्रादिकल्पो वर्तते तथापि वैमानिका एव कल्पोपपन्ना इति रूढिं गताः, यथा गच्छतीति २० गौः धेनुर्वृषभ एव गौरुच्यते गमनक्रियापरिणतोऽपि अश्वादिर्न गौरुच्यत इति । अथेदानीं वैमानिकानाम् अवस्थितिविशेषविज्ञापनार्थं सूत्रमिदमुच्यते
उपर्युपरि ॥१८॥ कल्पोपपन्नाः कल्पातीताश्च वैमानिकाः उपर्युपरि ऊर्ध्वमूवं वर्तन्ते । तेषां विमानानि च पटलापेक्षया उपर्युपरि अर्धे ऊर्ध्वं सन्ति, ज्योतिष्कवत्तिय॑गवस्थिता न वर्तन्ते, २५ व्यन्तरवदसमव्यवस्थितयश्च न सन्ति, इतस्ततो यत्र तत्र च न वर्तन्ते किन्तु उपर्युपरि वर्तन्ते ।
अथवा 'उपर्युपरि' इत्ययं शब्दः समीपवाची वर्तते । तत्रैवमर्थघटना कर्तव्या-यस्मिन् पटले सौधर्मस्वर्गो दक्षिणदिशि वर्तते तस्मिन्नेव पटले उत्तरदिशि समीपवर्ती ईशानस्वर्गोऽस्ति । एवं प्रतिपटलं यथासम्भवं द्विद्विस्वर्गविचारः अच्युतान्ते कर्तव्यः।
अथ कियत्सु कल्पविमानेषु देवा भवन्तीति प्रश्ने सूत्रमिदमाहुः
१ -पयति आ०, ज०। २ -र्णवि- ता०, आ०, द०, ज० । ३ -दा वर्तन्ते ते आ०, द०, ज०। ४ -भिति-आ०, द., ज०, व०। ५ षोडशस्व-ब०। ६ -माहुः भगवन्तः आ०,९०, ज०।
For Private And Personal Use Only