SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४।१४-१५] चतुर्थोऽध्यायः १६१ च सूर्यादीनां संख्या परमागमाद् वेदितव्या' । यत्र यावन्तः सूर्यास्तत्र तावन्तश्चन्द्रमसोऽपि वेदितव्याः । बहुविधगणनानि नक्षत्राणि च ज्ञातव्यानि । अथवा सर्वत्र एकैकस्य कुमुदबान्धवस्य सम्बन्धिनो ग्रहा अष्टाशीतिरष्टाशीतिर्भवन्ति । एकैकस्य जैघातृकस्य अष्टाविंशतिरष्टाविंशतिनक्षत्राणि भवन्ति । मानुषोत्तराऽभ्यन्तरेऽयं निर्णयः । अथेदानी गतिमतां ज्योतिष्काणां सम्बन्धेन व्यवहारकालः प्रवर्तते इति सूचयत्सू- ५ त्रमिदमाहुः तस्कृतः कालविभागः ॥१४॥ तर्कोतिष्कोतिष्कगत्या च कृतः तत्कृतः तक्रियाविशेषपरिच्छिन्नः अन्यजातादेरपरिच्छिन्नस्य कालनैयत्येनानवधारितस्य परिज्ञानहेतुरित्यर्थः । कालस्य समयावलिकादिव्यवहारकालस्य विभागः कालविभागः । कालो द्विप्रकारः-मुख्यो व्यावहारिकश्च । मुख्यः कालः १० परमाणुरूपो निश्चलो व्यवहारकालहेतुभूतः सम्भृतत्रिभुवनो वर्तते । मुख्यात्सब्जातो व्यावहारिकश्च समयावलिनाडिकादिलक्षणः । मुख्यस्य कालस्य च लक्षणं पञ्चमाध्याये विस्तरेण सूचयिष्यन्त्याचार्याः । अथेदानी मानुषोत्तराद् बहिर्ये वर्तन्ते ज्योतिष्काः तेषां निश्चलत्वप्रतिपादकं सूत्रमुच्यते बहिरवस्थिताः॥ १५ ॥ मनुष्यलोकाहिः "सर्वे ज्योतिष्का अवस्थिता निश्चला एव वर्तन्ते । तदुक्तम्"दो दोवग्गं बारस बादालबहत्तरं विउण (रिंदुइण) संखा । पुक्खरदलोत्ति परदो अवहिदा सव्वजोदिगणा ॥" [ चन्द्रसूर्यविमानविस्तारसूचनार्थमियं गाथा"जोयणमेगहिकए छप्पणअडदालचंदसराणं । सुक्कगुरिदरतियाणं कोसं किंचूणकोस कोसळू" ॥ [ त्रिलोकसा० गा० ३३७] अस्यायमर्थः-एकस्य प्रमाणयोजनस्य एकषष्टिर्भागाः क्रियन्ते तन्मध्ये षटपश्चाशद् भागाः चन्द्रविमानस्य उपरितनविस्तारो वर्तते । सूर्यविमानस्य तूपरितनभागोऽष्टचत्वारिंशद्भागमात्रो वर्तते। शुक्रविमानविस्तारस्तु क्रोशमात्रः। बृहस्पतेस्तु किश्चिदूनक्रोशः । मङ्गलबुधशनीनान्तु अर्द्धकोशमात्र इत्यर्थः । । १ त्रिलोकसा• गा० ३५० । मानुषोत्तरशैलाबहिः पुष्करार्ध चत्वारिंशदधिकशतं सूर्याणां भवति । अग्रे द्विगुणा द्विगुणा वेदितव्याः । २ -गणानि आ०, द०, ज० । ३ -नः अन्यजातादेरपरिच्छिन्नः अन्यजा- भा०, द०, ज० । ४ -कः स- आ०, द०, ज०, ता०। ५ सर्वज्योआ०, २०, ज०। ६ -ला व- आ०, द०, ज० । ७ द्वौ द्विवर्ग द्वादश द्वाचत्वारिंशत् द्वासप्ततिरिन्द्विनसंख्याः। पुष्करदलान्तं परतः अवस्थिताः सर्वज्योतिर्गणाः ॥ ८ -नार्था इयं ता०, व० । ९ योजनमेकषष्टिकृते घट्पञ्चाशत् अष्टचत्वारिंशत् चन्द्रसूर्याणाम् । शुक्रगुर्वितरत्रयाणां क्रोशः किञ्चिदूनक्रोशः क्रोशार्धम् ॥ २१ For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy