________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०
तत्त्वार्थवृत्तौ
[४१३ "उत्ताणहियगोलगदलसण्णिहसव्वजोइसविमाणा । चंदत्तिय वजिता सेसा हु चरंति एक्कवहे ॥" [ तिलोय० ७।३७ ]
उत्तानस्थितार्द्धगोलकाकाराः सर्वेषां ज्योतिष्काणां विमाना वर्तन्ते । चन्द्रसूर्यग्रहान् वर्जयित्वा शेषाः नक्षत्रप्रकीर्णकतारकाश्च एकस्मिन् निजनिजमार्गे व्रजन्ति । अथेदानीं ज्योतिष्कगतिविशेषप्रतिपत्त्यर्थं सूत्रमिदमुच्यते
मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥ १३ ॥ मेरोः प्रदक्षिणा मेरुप्रदक्षिणाः । नित्या अनवरता गतिर्गमनं येषां ज्योतिष्काणां ते नित्यगतयः । नणां लोकः नृलोकस्तस्मिन् नृलोके । अस्यायमर्थः-सर्वे ज्योतिष्का मेरुप्रद
क्षिणेन कृत्वा भ्रमन्ति न तु वामगत्या भ्रमन्ति । नित्यगतयः क्षणमपि ज्योतिष्काणां गतिः १० केनापि भक्तुं न शक्यते । ते तु मनुष्यलोकोपरि स्थिता ज्योतिष्का सदागतयो भवन्ति ।
आधाराधेययोरैक्योपचारात् ज्योतिष्कैरारूढा विमाना भ्रमन्ति। अर्द्धतृतीयेषु द्वीपेषु द्वयोश्च समुद्रयोरुपरि नित्यगतयो वर्तन्ते मानुषोत्तरपर्वता(हिः ज्योतिष्का न भ्रमन्तीत्यर्थः । अचेतना विमानाः कथं भ्रमन्ति ? सत्यम् ; प्रदक्षिणागत्यविरतैराभियोग्यदेवैः प्रेरिता विमाना
गतिं कुर्वन्ति कर्मोदयस्य वैचित्र्यवशात् । आभियोग्यानां देवानां विमानप्रेरणकर्मणैव कर्म १५ विपच्यते । ते तु ज्योतिष्का एकविंशत्यधिकैकादशयोजनशतैर्मेरुं परिहृत्य प्रदक्षिणाः सन्तश्चरन्ति । उक्तञ्च
"इगवीसेकारसयं विहाय मेरुं चरंति जोदिगणा । चंदत्तिय वजिता सेसा हु चरंति एक्कवहे ॥"
[त्रिलोकसा० ३४४। जम्बू० ५० १२।१०१ ] २० अथ विशेषः-जम्बूद्वीपोपरि द्वौ सूर्यौ वर्तेते । षट्पञ्चाशन्नक्षत्राणि सन्ति । षट्सप्त
त्यधिकमेकं शतं ग्रहाणाश्च वर्तते । लवणोदसमुद्रोपरि दिनमणयश्चत्वारः सन्ति । द्वादशाधिकं शतमुडूनाश्च वर्तते । द्वापञ्चाशदधिक" शतत्रयं ग्रहाणाञ्च वर्तते । धातकीखण्डोपरि प्रद्योतना द्वादश वर्तन्ते । षट्त्रिंशदधिकं शतत्रयमृक्षाणां च वर्तते । षट्पञ्चाशदधिकं सहस्रं
ग्रहाणामस्ति । कालोदसमुद्रोपरि त्रयीतनवो द्वाचत्वारिंशत् सन्ति । षट्सप्तत्यधिकानि एका२५ दशशतानि नक्षत्राणां वर्तन्ते । षण्णवत्यधिकानि षटत्रिंशच्छतानि ग्रहाणां सन्ति । पुष्क
रार्धद्वीपोपरि द्वासप्ततिरंशुमालिनो वर्तन्ते । षोडशाधिकं सहस्रद्वयं नक्षत्राणाश्च वर्तते । षट्त्रिंशदधिकानि त्रिषष्टिशतानि ग्रहाणां वर्तन्ते । मानुषोत्तराबहिः पुष्करार्धे पुष्करसमुद्र
१ उत्तानस्थितगोलकदलसन्निभसर्वज्योतिष्कविमानाः । चन्द्रत्रयं वर्जयित्वा शेषा हि चरन्ति एकपथे ॥ २ गत्वा आ०, द०, ज० । ३ वैचित्रिव- भा०, ज०, व०, ता० । ४ एकविंशत्येकादशशत विहाय मेरु चरन्ति ज्योतिर्गणाः । चन्द्रत्रयं वर्जयित्वा शेषा हि चरन्ति एकपथे ।। ५-कश- श्रा०, ६०, ज० । ६ -नि च नक्षत्राणि वर्तते द० । ७ -णाञ्च वर्तते ज०, आ० ।
For Private And Personal Use Only