SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४.११-१२] चतुर्थोऽध्यायः अथेदानी द्वितीयस्य निकायस्य उत्सर्गापवादसंज्ञाविज्ञापनार्थ सूत्रमिदमाहुःव्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ॥११॥ व्यन्तराः विविधदेशान्तराणि निवासा येषां ते व्यन्तराः, इयं सामान्यसंज्ञा अन्वर्था वर्तते सत्यार्थी वर्तते । कानि देशान्तराणि तेषां निवास इति चेत् ? निरूपयामि-एतस्माजम्बूद्वीपात् असङ्ख्येयद्वीपसमुद्रात व्यतिक्रम्य स्थिते खरपृथ्वीभागे किन्नरकिम्पुरुष- ५ महोरगगन्धर्वयक्षराक्षसभूतपिशाचानां सप्तप्रकाराणां व्यन्तराणां निवासाः सन्ति राक्षसानान्तु निवासाः तद्भागसमे खरभागसमपङ्कबहुलभागे वर्तन्ते । किन्नराश्च किम्पुरुषाश्च महोरगाश्च गन्धर्वाश्च यक्षाश्च राक्षसाश्च भूताश्च पिशाचाश्चेति द्वन्द्वः ते तथोत्ताः । एते अष्टप्रकारा व्यन्तरा विशेषसंज्ञा ज्ञातव्याः, देवगतिविशिष्टनामकर्मोदयसमुत्पन्ना इत्यर्थः । अथ तृतीयनिकायस्य सामान्यविशेषसंज्ञासंज्ञापनार्थं सूत्रमिदमुच्यते- १० ज्योतिष्काः सूर्याचन्द्रमसौ ग्रह नक्षत्रप्रकीर्णकतारकाश्च ॥ १२ ॥ ज्योतिःस्वभावत्वात् ज्योतिष्काः । सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ "देवताद्वन्द्वे" इति सूत्रेण पूर्वपदस्याकारः। महाश्च नक्षत्राणि च प्रकीर्णकतारकाञ्च ग्रहनक्षत्रप्रकीर्णकतारकाः । चकारः परस्परसमुच्चये वर्तते । तेनायमर्थः-न केवलं सूर्याचन्द्रमसौ ज्योतिष्कौ' किन्तु प्रहनक्षत्रप्रकीर्णकतारकाश्च ज्योतिष्का वर्तन्ते । सूर्याचन्द्रमसोः पृथगुपादानं प्रभादि- १५ कृतप्राधान्यनिमित्तम् । एषां स्थितिसूचनार्थमियं गाथा वर्तते "नवदुत्तरसत्तसया दससीदीचउदुगं तु तिचउक्कम् । तारारविससिरिक्खा बुहभग्गवअङ्गिरारसणी ॥१॥" [जम्बू० प० १२।९३] अस्यायमर्थः-नवत्युत्तरसप्तशतानि योजनानि समभूमिभागादूर्द्धं गत्वा पुष्पवत् प्रकीर्णाः तारका लभ्यन्ते । तास्तु तारकाः सर्वेषां ज्योतिष्काणामधोभागविन्यस्ताश्चरन्ति । तारकाभ्य २० उपरि दश योजनानि गत्वा सूर्याश्चरन्ति । सूर्येभ्य उपरि अशीतियोजनानि गत्वा चन्द्रमसश्चरन्ति । चन्द्रमोभ्यः उपरि चत्वारि योजनानि गत्वा अश्विनीप्रभृतीनि नक्षत्राणि भ्रमन्ति । नक्षत्रेभ्य उपरि चत्वारि योजनानि गत्वा बुधा लभ्यन्ते । बुधेभ्य उपरि त्रीणि योजनानि गत्वा भार्गवाः शुक्राः सन्ति । शुक्रेभ्य उपरि त्रीणि योजनानि गत्वा अङ्गिरसो बृहस्पतयः सन्ति । अङ्गिरेभ्य उपरि त्रीणि योजनानि गत्वा आरा मङ्गला वर्तन्ते । आरेभ्य उपरि २५ त्रीणि योजनानि गत्वा शनयो जाप्रति । सूर्यादधः मनागूनयोजने केतुर्वर्तते । चन्द्रादधो भागे ईषदूनयोजने च राहुरस्ति । एषां विमानाकारप्रतिपत्त्यर्थमियं गाथा-- १ निरूपयति आ०, ६०, ज० । २ -सौ ग्रहा- ता० । ३ –पूर्वपदस्य दीर्घः व० | ४ -स्परं स- आ०, ९०, ज०, ता० । ५ -तिष्काः कि- भा०, द०, ज०। ६ नवत्युत्तरसप्तशतानि दश अशीतिश्चतु िकं तु त्रिचतुष्कम् । तारारविशशिऋक्षा बुधभार्गवाङ्गिरारशनयः || For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy