________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५७
४.८]
चतुर्थोऽध्यायः प्राप्नोति । यस्तु मर्यादादिषु चतुर्वेष्वर्थेषु वर्तते स स्वरे परे साऽनुबन्धत्वात् सन्धि प्राप्नोत्येव । अस्मिन्नर्थे इदं सूत्रं वर्तते-इदं किम् ? "नाजोदन्तोऽनाङ निःप्लुश्च ।" अस्यायमर्थः-'न' इति सन्धि न प्राप्नोति । कोऽसौ ? अच् स्वरमात्रः यथा अ अर्हन् प्रसीद, इ इन्द्रं पश्य, उ उत्तिष्ठ । ओदन्त ओकारान्तो निपातः सन्धि न प्राप्नोति यथा अहो अर्हन्तं पश्य । तथा अनाङ् आवर्जितः निः निपातः सन्धि न प्राप्नोति यथा आ एवं किल ५ स्वरूपमस्य इति वाक्ये आकारमात्रः स्मरणे तथा आ एवं तन्मया कृतम् । आङ पुनः सन्धि प्राप्नोत्येव यथा आ,आत्मज्ञानं मर्यादीकृत्य आत्मज्ञानात् ; आ एकदेशम् अभिव्याप्य ऐकदेशात् , क्रियायोगे यथा आ समन्तात् आलोकि आलोकि समन्तात् दृष्टो जिन इत्यर्थः । ईषदर्थे यथा आ ईषत् उपरतैः औपरतैः। प्लुतश्च सन्धि न प्राप्नोति यथा आगच्छ भो जिनदत्त अत्र | उक्तश्व
१० "मर्यादायामभिविधौ क्रियायोगेषदर्थयोः ।
य आकारः स ङित् प्रोक्तो वाक्यस्मरणयोरङित् ।।" [ ] तदुदाहरणेषु श्लोकोऽयम्
"आत्मज्ञानादेकदेशादालोक्यो(क्यौ)परतैर्जिनः ।
आ एवं तत्त्वमस्याथः आ एवं तत्कृतं मया ।" [ ] १५ इति युक्त्या आङ् सन्धिं प्राप्नोत्येव कथमुमास्वामिभिर्भगवद्भिः 'आ ऐशानात्' इत्यत्र सन्धिकार्य न कृतम् ? सत्यमुक्तं भवता; असंहिततया सूत्रे निर्देशः असन्देहार्थ इति ।।
अथ यद्यैशानपर्यन्ता देवाः कायप्रवीचारसुखसहिता वर्तन्ते तर्हि सनत्कुमारादारभ्य अच्युतपर्यन्ताः कीदृशसुखा वर्तन्ते इति प्रश्ने सूत्रमिदमुच्यते
शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः॥ ८॥ शिष्यन्तेऽवशिष्यन्त इति शेषाः । स्पर्शश्च रूपश्च शब्दश्च मनश्च स्पर्शरूपशब्दमनांसि तैसेषु वा प्रवीचारः सुरतसौख्यानुभवनं येषां ते स्पर्शरूपशब्दमनःप्रवीचाराः। ईशा ( ऐशा) नान्तान् देवान् परिहत्य सानत्कुमारादयोऽच्युतस्वर्गपर्यन्ता अमराः शेषा इत्युच्यन्ते । अस्यायमर्थः–सानत्कुमारमाहेन्द्रत्रिविष्टपोत्पन्ना दिवौकसः शरीरसंस्पर्शमात्रेणव स्त्रियः पुरुषाश्च मैथुनसुखमनुभवन्ति परां प्रीतिमाप्नुवन्ति, आलिङ्गनस्तनजघनमुखचुम्बनादिक्रियया प्रकृष्टां २५ मुदं भजन्ते । तथा ब्रह्मब्रह्मोत्तरलान्तवकापिष्टचतुःसुरलोकसम्भवा वृन्दारका रूपेण दिव्याङ्गनामनोहरवेषविलासचातुर्यशृङ्गाराकारावलोकनमात्रेणैव परमानन्दमाप्नुवन्ति । तथा शुक्रमहाशुक्रशतारसहस्रारसञ्जातत्रिदशालया दिव्याङ्गनानां भूषणक्वणनमुखकमलललितभाषणमृदुहसनमधुरसंगानाकर्णनमात्रेणेव परां प्रीतिं संजिहते । तथा आनतप्राणतारणाच्युतत्रिदिव
१ -नर्थे सूत्रमिदं व- आ०, द., ज०। २ यथार्हन् व०। यथा आ अहन् आ०, द०, ज० । ३ यथा आ०, द०, ज०, व०। ४ अत्रात्र उ- आ० । ५ भगवता आ० । ६ कीदृशं सुखमनुवर्तन्ते आ०, १०, ज० । ७ -ण दिव्यं दि- आ०, द०, ज० । ८ -ररूपाव- आ०, ६०, ज० ।
For Private And Personal Use Only