SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५५ ४१४-५] चतुर्थोऽध्यायः ते दशाष्टपञ्चद्वादशविकल्पाः । पुनरपि कथम्भूताः ? कल्पोपपन्नपर्यन्ताः कल्पेषु षोडशस्वर्गेषु उपपन्नाः उत्पन्नाः कल्पोपपन्नाः। कल्पोपपन्ना वैमानिकाः पर्यन्ताः येषान्ते कल्पोपपन्नपर्यन्ताः। अस्यायमर्थः-दशविकल्पा भवनवासिनः, अष्टविकल्पा व्यन्तरदेवाः, पश्वविकल्पा ज्योतिष्काः, द्वादशविकल्पाः कल्पोपपन्नाः । प्रैवेयकादिषु अहमिन्द्रत्वं विना कोऽपि विकल्पो नास्तीत्यर्थः । अथ भूयोऽपि तेषां विशेषपरिज्ञानार्थं सूत्रमिदमुच्यते स्वामिभिःइन्द्रसामानिकत्रायस्त्रिंशपारिषदात्मरक्षलोकपालानीकप्रकीर्ण काभियोग्यकिल्विषिकाश्चैकशः ॥४॥ इन्दन्ति परमैश्वर्यं प्राप्नुवन्ति अपरामरासमानाऽणिमादिगुणयोगादिति इन्द्राः । १ । आज्ञाम् ऐश्वर्यश्च विहाय भोगोपभोगपरिवारवीर्यायुरास्पदप्रभृतिकं यद् वर्तते तत् समानमित्युच्यते। समाने भवाः सामानिकाः महत्तरपितृगुरूपाध्यायसदृशाः । २। त्रयस्त्रिंशदेव संख्या १० येषां ते त्रायस्त्रिंशाः मन्त्रिपुरोहितसमानाः । ३ । परिषदि सभायां भवाः पारिषदाः पीठमर्दमित्रतुल्याः।४। आत्मन इन्द्रस्य रक्षा येभ्यस्ते आत्मरक्षा अङ्गरक्षशिरोरक्षसदृशाः।५। लोकं पालयन्तीति लोकपाला आरक्षिकार्थचरकोट्टपालँसमानाः । आरक्षिका ग्रामादौ नियुक्ततलवराः। अर्थेषु चरन्ति पर्यटन्ति अर्थचराः कार्यनियुक्ताः कनकाध्यक्षादिसदृशाः। कोट्टपाला पत्तनरक्षका महातलवराः दुर्गपालापरनामानः तत्समाना लोकपाला इत्यर्थः । ६। १५ अनीकाः हस्त्यश्वरथादातवृषभगन्धर्वनर्तकीलक्षणोपलक्षितसप्तसैन्यानि । ५। प्रकीर्णकाः पौरजनपदसमानाः । ८। अभियोगे कर्मणि भवा आभियोग्या दासकर्मकरकल्पाः । ९ । किल्विषं पापं विद्यते येवान्ते किल्विषिकाः "इविषये इको वाच्यः" [ का० सू० २।६।१५, दौ० वृ० १६ श्लो०] इति व्युत्पत्तेः । किल्विषिका इति कोऽर्थः वाहनादिकर्मसु नियुक्त : ५दिवाकीर्तिसहशा इत्यर्थः । इन्द्राश्च सामानिकाश्च त्रायस्त्रिंशाश्व पारिषदाश्च लोक- २० पालाश्च अनीकानि च प्रकीर्णकाश्च आभियोग्याश्च किल्विषिकाश्च ते तथोक्ताः । एकशः एकैकस्य देवनिकायस्य एकशः एते इन्द्रादयो दश भेदाः चतुर्पु निकायेषु प्रत्येकं भवन्तीति उत्सर्गव्याख्यानं ज्ञातव्यम् । अथापवादव्याख्यानसूत्रं सूत्रयन्ति सूत्रकाराः त्रायस्त्रिंशलोकपालवजो व्यन्तरज्योतिष्काः ॥५॥ त्रयस्त्रिंशद्देवाः त्रायस्त्रिंशाः वयस्यपीठमर्दनतुल्याः, लोकं पालयन्तीति लोकपालाः २५ अर्थचरारक्षिकतुल्याः, त्रायस्त्रिंशाश्च लोकपालाश्च त्रायस्त्रिंशलोकपालाः तान् वर्जयन्तीति त्रायस्त्रिंशलोकपालवर्जाः । विविधमन्तरमेषां व्यन्तराः, ज्योतिःस्वभावत्वाज्योतिष्काः, व्यन्तराश्च ज्योतिष्काश्च व्यन्तरज्योतिष्काः। अस्यायमर्थः-व्यन्तरेषु ज्योतिष्केषु च त्रायस्त्रिंशा लोकपालाश्च न वर्तन्ते इतरे अष्टाविन्द्रादयो भेदाः सन्त्येव। इन्द्रादयो दशाऽपि भेदा १ -ज्ञापना- भा०, २०, ज० । २ -मर्दनमि- आ०, द , ज०, ३० । ३ -लसदृशाः भा०। ४-पदातिवृ- आ०, २०, ज० । ५ नापित-चाण्डालसमाना इत्यर्थः । ६ -कारकाः आ०, ब०, द०। ७ वाः भा०। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy