SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थोऽध्यायः अथ "भवप्रत्ययोवधिदेवनारकाणाम्" [त० सू० १।२१ ] इति प्रभृतिषु देवशब्दः श्रुतः। तत्र के देवाः कतिप्रकारा वा ? तत्स्वरूपनिरूपणार्थं सूत्रमिदं श्रीमदुमास्वामिनः प्राहुः देवाश्चतुर्णिकायाः ॥ १॥ देवगतिनामकर्मप्रकृत्युदयेऽभ्यन्तरे प्रत्यये कारणे हेतौ सति बाह्येष्ठवनितादिसामग्रीसहिता द्वीपाब्धिपर्वतनद्यादिषु प्रदेशेषु यदृच्छया दीव्यन्ति क्रीडन्ति ये ते देवाः । चतुर्णिकायाः चत्वारो निकायाः समूहाः भवनवासिव्यन्तरज्योतिष्कवैमानिकलक्षणाः सङ्घाता येषां ते चतुर्णिकायाः । जात्यपेक्षया 'देवश्चतुर्णिकायः' इति सूत्रे सिद्धे सति बहुवचननिर्देशः तदभ्यन्तरप्राप्तानेकभेदसूचनार्थमित्यर्थः। अतिशयेन चीयन्ते पुष्टिं नीयन्ते इति निकायाः । १० "सङ्घ चानौत्तराधर्ये" [ का० सू० ४।५।३६ ] इत्यनेन सूत्रेण घस्प्रत्ययः। चकारस्य ककारादेशः "चेस्तु हस्तादाने" [ का० सू० ४।५।३४ ] इत्यतः २चिर्वर्तते । "शरीरनिवासयोः कश्चादेः" [ का० सू० ४।५।३५ ] इत्यतः कादेशश्च । शूकरनिचय इत्यत्र घम् कादेशश्च न भवति शूकरेषु उच्चावचत्वं वर्तते तेन औत्तराधयं तत्रास्ति, चतुर्पु निजनिजनि कायेषु अणिमादीनां समानत्वादौत्तराधयं नास्ति । १५ अथेदानी देवनिकायानां लेश्याविशेषपरिज्ञानाथं सूत्रमिदमुच्यते सूरिभिः आदितस्त्रिषु पीतान्तलेश्याः ॥ २ ॥ आदितनिषु भवनवासिन्यन्तरज्योतिष्केषु त्रिषु देवनिकायेषु पीता तेजोलेश्या अन्ते यासां लेश्यानां ताः पीतान्ताः कृष्णनीलकापोततेजोलेश्या इत्यर्थः, पीतान्ताश्च ता लेश्याः पीतान्तलेश्याः । कर्मधारयसंज्ञे तु पुंवद्भावो विधीयते । अथवा त्रिषु आदितनिषु देव२० निकायेषु देवाः कथम्भूताः ? पीतान्तलेश्याः। पीतान्ता लेश्या येषान्ते पीतान्तलेश्याः । एवं सति "ऍवभाषितपुंस्कानूपुरणादिषु खियां तुल्याधिकरणे" [ का० सू० २।५।१८ ] इत्यनेन पुंवद्भावः । षण्णां लेश्यानां मध्ये चतस्रो लेश्या आदितः आद्यात्रिषु देवनिकायेषु भवन्ति । आदित इति विशेषणं त्रिषु इत्यस्य पदस्य विशेषणं लेश्यानां वा विशेषणम् । अथ चतुण्णां देवनिकायानामन्तर्भेदसूचनार्थं सूत्रमिदं ब्रुवन्ति२५ दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः॥३॥ दश च अष्ट च पञ्च च द्वादश च दशाष्टपञ्चद्वादश ते विकल्पाः प्रकाराः येषां देवानां १ -नामप्र- आ०, २०, ज० । २ विवर्तते आ०, ६०, ज० । विर्वर्तते प० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy