________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५३
३।३९]
तृतीयोऽध्यायः रोमखण्डानि प्रत्येकम् असंख्येयकोटिवर्षसमयमात्रगुणितानि गृहीत्वा द्वितीया महाखनिस्तैः पूर्यते । सा खनिः उद्धारपल्यमित्युच्यते । तदनन्तरं समये समये एक रोमखण्डं निष्कास्यते, यावत्कालेन सा महाखनिः रिक्ता जायते 'तावान् काल उद्धारपल्योपमाह्वयः संसूच्यते । उद्धारपल्यानां दशकोटिकोट्य एकम् उद्धारसागरोपममभिधीयते । अर्द्ध तृतीयोद्धारसागरोपमाणां पञ्चविंशतिकोटिकोट्य द्धारपल्योपमानां यावन्ति रोमखण्डानि भवन्ति तावन्तो ५ द्वीपसमुद्रा ज्ञातव्याः । तदनन्तरम् उद्धारपल्यरोमखण्डानि वर्षशतसमयमात्रगुणितानि गृहीत्वा ततोऽपि महती खनिः पूर्यते। सा खनिः अद्धापल्यमित्युच्यते । तदनन्तरं समये समये एकैकं रोमखण्डं निष्कास्यते। यावत्कालेन सा महती खनिः रिक्ता सञ्जायते तावत्कालः अद्धापल्योपमैसज्ञः समुच्यते। अद्धापल्योपमदशकोटिकोट्यः अद्धासागरोपम उच्यते । दशकोटिकोट्योऽद्धासागरोपमाणामेकाऽवसर्पिणी कालो भवति, तावती उत्सर्पिणी च । १० द्वाभ्यां कल्प उच्यते । अद्धापल्योपमेन नारकाणां तिरश्चां देवानां मनुष्याणाञ्च कर्मस्थितिरायुस्थितिः कायस्थितिः भवस्थितिश्च गण्यते।
अथ यदि ईदृग्विधेन अद्धापल्योपमेन मानवानामुत्कृष्टस्थितिर्वर्णिता त्रिपल्योपमेति जघन्याऽन्तर्मुहूर्तेति च, तर्हि तिरश्चां स्थितिः कीदृशी भवतीति प्रश्ने भगवान् उमास्वाम्याह
तिर्यग्योनिजानाश्च ॥ ३९ ॥ तिरश्चां योनिः तिर्यग्योनिः तस्यां जातास्तिर्यग्योनिजाः तेषां तिर्यग्योनिजानाम् , उत्कृष्टा भवस्थितिः त्रिपल्योपमा भवति, जघन्या च अन्तर्मुहूर्ता वेदितव्या । चकारः परस्परसमुच्चये वर्तते। अस्मिन्नध्याये सप्तनरका द्वीपसमुद्राः कुलपर्वताः पद्मादयो हदा गङ्गादयो नद्यः मनुष्याणां भेदः नृपशूनामायुः स्थितिश्च वर्णिता इति प्रसिद्ध ज्ञातव्यम् ।
* इति सूरिश्रीश्रुतसागरविरचितायां तात्पर्यसंज्ञायां तत्त्वार्थवृत्तौ तृतीयः पादः समाप्तः। २०
१ तावत्काल: प्रा०, द०, ब०, २०,ज०। २ -मसंज्ञकः समु- आ०, द०,ज०१३-चयार्थे व-पा०, द०, ज०। ४ इत्यनवद्यपद्यगद्यविद्याविनोदोदितप्रमोदपीयूषरसपानपावनमतिसभाजनरत्नराजमतिसागरयतिराजराजितार्थनसमर्थन तर्कव्याकरणछन्दोलङ्कारसाहित्यादिशास्त्रनिशितमतिना यतिना श्रीमद्देवेन्द्रकीर्तिभट्टारकप्रशिष्येण शिष्येण च सकलविद्वजनविहितचरणसेवस्य श्रीविद्यानन्दिदेवस्य संछदितमिथ्यामतदुर्ग रेण श्रीश्रुतसागरसूरिणा विरचितायां श्लोकवार्तिकराजवार्तिकसर्वार्थसिद्धिन्यायकुमुदचन्द्रोदयप्रमेयकमलमार्गण्डप्रचण्डाष्टसहस्रीप्रमुखग्रन्थसन्दर्भनिर्भरावलोकनबुद्धिविराजितायां तत्त्वार्थटीकायां तृतीयोऽध्यायः समाप्तः । आ०, ६०, ५०,व) । इति श्रीमद्देवेन्द्रकीर्तिमट्टारकशिष्यस्य श्रीविद्यानन्दिदेवस्य शिष्येण श्रीश्रुतसागरसूरिणा विरचितायां तत्त्वार्थटीकायां तृतीयोऽध्यायः समाप्तः । ज० ।
For Private And Personal Use Only