________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५.
Acharya Shri Kailassagarsuri Gyanmandir
१५२
तत्वार्थवृत्त
३/३८
यथासंख्यत्वेन मानवानाम् उत्कृष्टा स्थितिः त्रिपल्योपमा, जघन्येन मानवानां स्थितिः अन्तर्मुहूर्त्ता, मध्यस्थितिरनेकप्रकारा ।
किं तत्पल्योपममिति चेत् ? उच्यते
"ववहारुद्ध |रद्धा-पल्ला तिष्णेव होंति बोधव्या ।
संखा दीवसमुद्दा कम्मडिदि वण्णिदा जेहिं ।।" [ त्रिलोक० गा० ९३ ] अस्यायमर्थ:- : - व्यवहारश्च उद्धारश्ध अद्धा च व्यवहारोद्धाराद्वाः पत्यानि कुशूलाः त्रीण्येव भवन्तीति बोद्धव्यानि । जेहिं यैस्त्रिभिः पल्यैः वण्णिदा वर्णिता कथिता । का वर्णिता ? संखा संख्यामात्रम् । व्यवहारपल्येन उद्धारपल्याद्धापल्ययोः संख्या ज्ञायते । तेन व्यवहारपल्येन संख्या वर्णिता । उद्धारपल्येन तु द्वीपसमुद्रा वर्णिताः । अद्धापल्येन कर्मस्थितिर्वर्णिता । १० यथाक्रमं पल्यत्रयकार्यं ज्ञातव्यमिति संग्रहगाथार्थः । तेन व्यवहारपल्यम् उद्धारपल्यम् अद्धापल्यचेति पल्यं त्रिप्रकारम् । तत्र व्यवहारपल्यस्वरूपं निरूप्यते - प्रमाणाङ्गुलपरिमितं योजनमेकम् । किं तत् प्रमाणाङ्गुलम् ? अवसर्पिण्या: सम्बन्धी प्रथमचक्रवर्ती, तस्याङ्गुलं प्रमाणाङ्गुलम् । अथवा उत्सर्पिण्याः सम्बन्धी चरमचक्रवर्ती तस्याङ्गुलं प्रमाणाङ्गुलम् । तेन प्रमाणाङ्गुलेन मितः चतुर्विंशत्यङ्गुलो हस्तः । तैश्चतुर्भिः हस्तैर्मपित एको दण्डः । तैर्द्विसहस्रदण्डैर्मपिता १५ एका प्रमाणगव्यूतिः ताभिश्चतुर्गव्यूतिभिर्मपितम् एकं प्रमाणयोजनम् । मानवानां पञ्चशतयोजनैरेकं प्रमाणयोजनमित्यर्थः । किं तन्मानवयोजनं येन प्रमाणयोजनं दिव्ययोजनं ज्ञायते ? अष्टभिः परमाणुभिः एकत्रसरेणुः । अष्टभिः त्रसरेणुभिः पिण्डिते रेकत्रीकृतैरेका रथरेणुरु
२०
ते । अष्टमी रथरेणुभिः पिण्डिता भिरेकं चिकुराप्रमुच्यते । अष्टभिश्चिकुरायैः पिण्डितैरेका लिता भण्यते । अष्टभिः लिक्षाभिः पिण्डिताभिरेकः श्वेतसिद्धार्थं उच्यते । अष्टभिः सिद्धार्थैः ० पिण्डितैः एको यव उच्यते । अष्टभिर्यवैः अङ्गुलमुच्यते । षड् भिरङ्गलैः पाद उच्यते । द्वाभ्यां पादाभ्यां वितस्तिः कथ्यते । द्वाभ्यां वितस्तिभ्यां रत्निरुच्यते । चतुर्भी रत्निभिः दण्डः कथ्यते । द्विसहस्रदण्डैः गव्यूतिरुच्यते । चतुर्गव्यूतिभिर्मानवयोजनं भवति । पञ्चशतमानवयोजनैरेक महायोजनं प्रमाणयोजनं दिव्ययोजनं भवति । तद्योजनप्रमाणा खनिः क्रियते । मूले मध्ये उपरि 'च समाना वर्तुलाकारा सातिरेकन्त्रिगुणपरिधिः । सा खनिः एकादिसप्तान्ताहोरात्र जाताऽवि२५ रोमाणि गृहीत्वा खण्डितानि क्रियन्ते । तादृशानि खण्डानि क्रियन्ते यादृशानि खण्डानि पुनः कर्त्तर्या खण्डयितुं न शक्यन्ते । तैः सूक्ष्मै रोमखण्डे : महायोजनप्रमाणा खनिः पूर्यते । कुछयित्वा निबिडीक्रियते । सा खनिः व्यवहारपल्यमिति कथ्यते । तदनन्तरमब्दशतैरब्दशतैरेकैकं रोमखण्डमपकृष्यते । एवं सर्वेषु रोमेष्वपकृष्टेषु यावत्कालेन सा खनिः रिक्ता भवति तत्कालो व्यवहारपल्योपम इत्युच्यते । तेन व्यवहारपल्योपमेन न किमपि गण्यते । तान्येव
१ व्यवहारोद्धाराद्वाः पत्यानि त्रीण्येव भवन्ति बोद्धव्यानि । संख्या द्वीपसमुद्राः कर्मस्थितिः वर्णिता यैः ॥ २ अद्धारप श्रा० द० ज० । ३ -कत्रक - श्रा० द०, अ० । ४ णा परिअ०, ६०, ज० । ५ -जन्यावि- ता० ।
For Private And Personal Use Only