________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३।३८] तृतीयोऽध्यायः
१५१ न्तीत्यर्थः। 'अत्र अन्यत्रशब्दो वर्जनार्थे ज्ञातव्यः । तेन "दिगितरर्तेऽन्यौश्च" [ का०सू० २।४। २१ ] इत्यनेन सूत्रेण लिङ्गात् पञ्चमी सजाता । यद्येते पञ्चदशप्रदेशाः कर्मभूमय इति व्यपदिश्यन्ते कर्मभूमयः कथ्यन्ते तर्हि देवकुरूत्तरकुरुहैमवतहरिवर्षरम्यक हैरण्यवतषण्णवत्यन्तरद्वीपाश्च भोगभूमय इत्युच्यन्ते । तत्रायं तु विशेषः-ये अन्तरद्वीपजास्ते कल्पवृक्षकल्पितभोगा न भवन्ति । तथा सर्वे भोगभूमिजा मृताः सन्तः देवत्वमेव प्राप्नुवन्ति । 'पूर्वपश्चिमदक्षिणोत्तरेषु ५ ये अन्तरद्वीपास्तत्रत्याः शुभकर्मभूमिसमीपवर्तित्वात् चातुर्गतिका भवन्ति' इति केचिदाहुः । मानुषोत्तरात्परतः स्वयम्भूरमणद्वीपमध्यस्थितस्वयम्प्रभपर्वतं यावत् एकेन्द्रियपञ्चेन्द्रियास्पदा एव द्वीपा कुत्सितभोगभूमय उच्यन्ते। तत्र पञ्चेन्द्रियाः तिर्यश्च एव न तु मनुष्याः, असंख्येयवर्षायुषो गव्यूत्युन्नतशरीराः। तेषां चत्वारि गुणस्थानानि सम्भवन्ति ।
__ अथ मानुषोत्तर इति यः पर्वतः श्रुतः स कीदृशः ? एकविंशत्यधिकयोजनसप्तदश- १० शतोन्नतः, त्रिंशदधिकयोजनचतुःशतभूमिमध्यगतः, द्वाविंशत्यधिकयोजनसहस्रबुध्नविस्तारः, त्रयस्त्रिंशदधिकयोजनसप्तशतमध्यविस्तारः, चतुर्विंशत्यधिकयोजनचतुःशतोपरिविस्तारः । तदुपरि चतुर्दिक्षु चत्वारश्चैत्यालया नन्दीश्वरद्वीपचैत्यालयसदृशा ज्ञातव्याः ।
अथ कैः कर्मभिः कर्मभूमिरुच्यते इति चेत् ? उच्यते-शुभं कर्म सर्वार्थसिद्ध्यादिनिमित्तम् , अशुभञ्च कर्म सप्तमनरकादिहेतुभूतम् , असिमषिकृषि विद्याशिल्पवाणिज्य- १५ लक्षणं षड्विधं कर्म जनजीवनोपायभूतम् , पात्रदानदेवपूजनादिकच कर्म, तैः कर्मभिरुपलक्षिताः कर्मभूमय इत्युच्यन्ते। 'ननु सर्वं जगत् कर्माधिष्टानमेव, कथमेता एव कर्मभूमयः ? इत्याह-सत्यम् ; उत्कर्षेण शुभाशुभकर्माधिष्ठानात् कर्मभूमय इति । ___स्वयम्प्रभपर्वतान्मानुषोतराकारात्परत आलोकान्तं ये तिर्यश्चः सन्ति तेषु पञ्च गुणस्थानानि सम्भवन्ति । ते च पूर्वकोट्यायुषः। तत्रत्या मत्स्याः सप्तमनरकहेतुकं पाप- २० मुपार्जयन्ति । स्थलचराश्च केचित् स्वर्गादिहेतुपुण्यमप्युपार्जयन्ति । तेन अझै द्वीपः सर्वः समुद्रश्च समुद्रावहिश्चत्वारः कोणाश्च कर्मभूमिरित्युच्यते इति विशेषः । अथ उक्तासु भूमिषु नराणामायुःपरिज्ञानार्थं सूत्रमिदमुच्यते भगवद्भिरुमास्वामिभिः
नृस्थिती परावरे त्रिपल्योपमान्तर्मुहः ॥ ३८॥ स्थितिश्च स्थितिश्च स्थिती, नृणां नृणां वा स्थिती नृस्थिती द्वौ आयुःकालौ इत्यर्थः । २५ कथम्भूते द्वे नृस्थिती ? परावरे परा उत्कृष्टा अवरा च निकृष्टा जघन्येति यावत् परावरे । पुनरपि कथम्भूते नृस्थिती ? त्रिपल्योपमान्तर्मुहूर्त । त्रीणि पल्योपमानि यस्याः पराया उत्कृष्टायाः स्थितेः सा त्रिपल्योपमा, अन्तर्गतोऽपरिपूर्णो मुहूर्तो घटिकाद्वयं यस्या अवराया जघन्यायाः साऽन्तर्मुहूर्ता, त्रिपल्योपमा चान्तर्मुहूर्ता च त्रिपल्योपमान्तर्मुहूर्ते । अस्यायमर्थः
१ अथात्र श्रा०। २ -यः कथ्यन्ते आ०, ब०, द०, ज० । ३ सप्तनरका- प्रा०, द०, ब०, २०, ज०। ४ -षिवाणिज्यविद्याशिलल-प्रा०, द०, ज०। ५-पूजादिकं क-श्रा, ९०, ज०। ६ न तु सर्व ता०, आ०। ७ --ण्यमुपा-द०, ज०। ८ -द्वयमस्या मा०, २०, ज०।।
For Private And Personal Use Only