SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० तत्त्वार्थवृत्ती [ ३।६७ पार्वेषु चत्वारो द्वीपाः । एवं लवणोदसमुद्रमध्ये अर्वाक् पार्श्वे चतुर्विंशतिद्वीपा भवन्ति । ते द्वीपाः कुत्सितभोगभूमयः कथ्यन्ते । तत्र चतुर्विशतिद्वीपेषु चतुर्दिक्षु ये चत्वारो द्वीपा वर्तन्ते ते समुद्रवेदिकायाः सकाशात् पञ्चशतयोजनानि गत्वा लभ्यन्ते । ये तु चतसृषु प्रदिक्षु चत्वारो द्वीपाः सन्ति अन्तरालेषु चाष्टौ द्वीपा वर्तन्ते ते द्वादशापि द्वीपाः पञ्चशत५ योजनानि पञ्चाशद्योजनाधिकानि तद्वद्गत्वा लभ्यन्ते । ये तु पर्वतान्तेषु अष्टौ द्वीपा वर्तन्ते ते षट्शतयोजनानि गत्वा प्राप्यन्ते । चतुर्दिग्द्वीपाः शतयोजनविस्ताराः। चतुर्विदिकद्वीपा अष्टान्तरालद्वीपाश्च, एते द्वादशद्वीपाः पञ्चाशद्योजनविस्तारा वर्तन्ते । पर्वतान्तेषु येऽष्टद्वीपाः सन्ति ते पञ्चविंशतियोजनविष्कम्भा भवन्ति । तत्र पूर्वस्यां दिशि यो द्वीपो वर्तते तस्मिन् द्वीपे एकोरुका म्लेच्छा भवन्ति । दक्षिणायां दिशि शृङ्गिणो मनुष्या भवन्ति । पश्चिमायां १० दिशि पुच्छसहिता म्लेच्छाः “सन्ति। उत्तरायां दिशि मूका वर्तन्ते । 'चतुविदिक्षु अग्निकोणे शशकर्णाः, नैऋत्यकोणे शष्कुलीकर्णाः, वायुकोणे कर्णप्रावरणाः, ईशानकोणे लम्बकर्णाः । पूर्वाग्न्यन्तराले अश्वमुखाः। अग्निदक्षिणान्तराले सिंहमुखाः। दक्षिणनैऋत्यान्तराले५ भषणमुखाः, नैऋत्यपश्चिमान्तराले गर्वरमुखाः । पश्चिमवातान्तराले शूकरमुखाः । वातोत्तरान्तराले व्याघ्रमुखाः । उत्तरेशानान्तराले काकवदनाः। ईशानपूर्वान्त१५ राले “कपिलपनाः । हिमवत्पूर्वपार्वे मत्स्यमुखाः । हिमवत्पश्चिमपार्श्वे कृष्णवदनाः । शिख रिणः पूर्वपार्वे मेघमुखाः । शिखरिणः पश्चिम पार्वे तडिद्वदनाः । दक्षिणविजयार्द्धपूर्वपार्वे गोमुखाः । दक्षिणविजयाद्ध पश्चिमपार्श्वे उरभ्रवदनाः । उत्तरविजयाद्ध पूर्वपार्वे गजाननाः। उत्तरविजयाद्ध पश्चिमपार्श्वे दर्पणास्याश्चेति । तत्र एकोरुकाः मृत्तिकाहारा गुहानिवासिनः । अन्ये सर्वेऽपि वृक्षतलनिवासाः फलपुष्पभक्षिणः । विश्वेऽपि पल्योपमजीविताः द्विसहस्रधनु२० रुन्नतशरीराः। एवं लवणोदसमुद्रपरतीरेऽपि चतुर्विंशतिद्वीपा ज्ञातव्याः। तथा कालोद समुद्रेऽपि अष्टचत्वारिंशद्वीपा भवन्ति । एवं षण्णवतिम्लेच्छद्वीपाः। ते सर्वेऽपि द्वीपा जलाद् योजनोन्नता बोद्धव्याः। एते सर्वेऽपि अन्तरद्वीपोद्भवा म्लेच्छा भवन्ति । कर्मभूम्युद्भवाश्च म्लेच्छा पुलिन्दशबरयवनशकखसंबर्बरादयो ज्ञातव्याः। अथ कास्ताः कर्मभूमयः १ २५ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥ ३७ ॥ भरताश्च पश्च ऐरावताश्च पञ्च विदेहाश्च पश्च भरतरावतविदेहाः, एते पश्चदशप्रदेशाः कर्मभूमयः कथ्यन्ते । तर्हि पञ्चसु विदेहेषु मध्ये पश्चदेवकुरवः पञ्चोत्तरकुरवः सन्ति, तेऽपि किं कर्मभूमयः ? नैवम् ; देवकुरूत्तरकुरुभ्यः अन्यत्र, देवकुरून उत्तरकुरून् वर्जयित्वा इत्यर्थः। विदेहेषु स्थिता अपि देवकुरव उत्तरकुरवश्व कर्मभूमयो न भवन्ति किन्तु उत्तमभोगभूमयो भव १ चतसृषु दिक्षु द० । २ -रोऽपि द्वी- ज० । ३ -णस्यां आ०, २०, ज० । ४ भवन्ति प्रा०, ज० । ५ -ले षण्मु- आ० । ६ -ले गोमु- ज० । -ले गर्गमु- द० । ७ काकमुखाः आ०, द०, ज० । ८ कपिलवदना व०।९ -स्वसवरा-पा०, ६०, ज.। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy