________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३॥३६] तृतीयोऽध्यायः
१४९ क्षेत्रर्द्धिर्द्विप्रकारा-अक्षीणमहानसद्धिः अक्षीणालयर्द्धिश्च । तत्राक्षीणमहानसर्द्धिः यस्मिन्नमत्रे' अक्षीणमहानसैर्मुनिभिर्भुक्तं तस्मिन्नमत्रे चक्रवर्तिपरिजनभोजनेऽपि तहिने अनं न क्षीयते ते मुनयः अक्षीणमहानसाः कथ्यन्ते। अक्षीणमहालयास्तु मुनयो यस्मिन् चतुःशयेऽपि मन्दिरे निवसन्ति तस्मिन् मन्दिरे सर्वे देवाः सर्वे मनुष्याः सर्वे तिर्यञ्चोऽपि यदि निवसन्ति तदा तेऽखिला अपि अन्योन्यं बाधारहितं सुखेन तिष्ठन्ति इति अक्षीणालयाः। ईदृशा ५ मनुष्या ऋद्धिप्राप्ता भवन्ति ।
ऋद्धिरहिता आर्यास्तु पश्चप्रकारा भवन्ति । के ते पञ्चप्रकाराः ? सम्यक्त्वार्याः, चारित्रार्याः, कार्याः, जात्यार्याः, क्षेत्रार्याश्चेति । तत्र सम्यक्त्वार्याः सम्यग्दृष्टयो व्रतरहिता इत्यर्थः । चारित्रार्याश्चारित्रप्रतिपालका यतयः । · कर्मार्यास्त्रिप्रकाराः-सावद्यकार्याः, अल्पसावद्यकार्याः, असावद्यकार्याश्चेति । तत्र सावद्यकर्मार्या व्रतरहिताः षट्प्रकाराः असिमसि- १० कृषिविद्याशिल्पवाणिज्यकर्मार्य भेदात् । तत्र असितरवारिवसुनन्दकधनुर्बाणछुरिकाकट्टारककुन्तपट्टिशहलमुशलगदाभिन्डिमालालोह घनशक्ति चक्राद्यायुधचञ्चवः असिकर्मार्या उच्यन्ते । आयव्ययादिलेखनवित्ता मषिकर्मार्याः कथ्यन्ते । हलेन भूमिकर्षणनिपुणाः कृषिकर्मा भण्यन्ते। गणितादिद्वासप्ततिकलाप्रवीणा विद्याकार्या 'उद्यन्ते। "निर्णेजकदिवाकीर्त्यादयः । शिल्पकार्या ध्वन्यन्ते । धान्यक(का)सचन्दनसुवर्णरजतमणिमाणिक्यघृतादिरसांशुकादि. १५ संग्रहकारिणो वाणिज्यकर्मावदाता वणिक्कर्मायो शब्द्यन्ते । एते षट्प्रकारा अपि सावद्यकआर्या भवन्ति । अल्पसावद्यकर्यािस्तु श्रावकप्रभृतयः । असावद्यकर्यािस्तु यतयः।।
जात्यार्यास्तु इक्ष्वाकुवंशीयुद्भवाः। अस्यामवसर्पिण्यामिक्ष्वाकुवंशः स्वयं श्रीवृषभेश्वरः, तस्य कुले भवा इक्ष्वाकुवंशाः । भरतसुतार्ककीर्तिकुले सञ्जाताः सूर्यवंशाः । बाहुबलिसुतसोमयशोवंशे भवाः सोमवंशाः। सोमप्रभश्रेयांसकुले समुत्पन्नाः कुरुवंशाः। अकम्पन- २० महाराजकुले समुद्भवा नाथवंशाः। हरिकान्तनृपान्वये सम्भूता हरिवंशाः। हरिवंशेऽपि यदुनृपकुलजाता यादवाः। काश्यपनृपकुले सम्भवा उग्रवंशा इति । एवंविधा जात्यायः कथ्यन्ते ।
कौशल-काश्यवन्ति-अङ्ग-चङ्ग-तिलङ्ग-कलिङ्ग-लाट-कर्णाट-भोट-गौड-गुर्जर-सौराष्ट्र-मरुवाजे ड-मलय-मालव-कुकणाभीर-सौर मस-काश्मीर-जालंधरादिदेशोद्भवाः क्षेत्रार्या इत्युच्यते । २५
म्लेच्छास्तु द्विप्रकाराः-अन्तरद्वीपोद्भवाः कर्मभूम्युद्भवाश्चेति । तत्र अन्तरद्वीपोद्भवा म्लेच्छाः कथ्यन्ते-लवणोदसमुद्रे अष्टसु दिशासु अष्टौ द्वीपाः, तदन्तरालेषु चाष्टौ द्वीपाः, हिमवत उभयपार्श्वयो द्वीपौ, शिखरिण उभयपार्श्वयोश्च द्वौ द्वीपो, विजयाद्ध योरुभययोः
१ पात्रे। -स्मिन्नन्ने प्रा०, द०, ज०, व० । २ -न्लन्ने च- आ०, ६०, ज०, वः । ३ चतुष्टये-पा०,द०,ज०।४ -तार्या-व०॥५-यावन्य- ता०। ६ उच्यन्ते व० । उत्पद्यन्ते श्रा०, द०, ज० । ७ रजकनापितादयः। ८ -शादुद्भ- श्रा०, ज०। ९ -श्यपकु-पा०, द०, ज० । १० --जडवल-पा०, ६०, ज०। ११ -रभस-पा० । १२ -त्रार्या उ~ श्रा०, ६०, ज० ।
For Private And Personal Use Only