SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४८ तत्त्वार्थवृत्तौ [३६३६ गमनम् अप्रतीघातः । अनेकरूपकरणं मूर्तामूर्ताकारकरणं वा कामरूपित्वम् । अदृष्टरूपताऽन्तर्डानम् । इत्यादि विक्रियद्धिः । घोरतपो महातप उप्रतपो दीप्ततपस्तप्ततपो घोरगुणब्रह्मचरिता घोरपराक्रमता चेति तपऋद्धिः सप्तधा । तत्र-चोरतपः-सिंहव्याघ्रसंचित्रकतरक्षुप्रभृतिक्रूरश्वापदाकुलेषु गिरिकन्द५ रादिषु स्थानेषु भयानकश्मशानेषु च प्रचुरतरशीतवातातपादियुक्तेषु स्थानेषु स्थित्वा दुर्द्धरोप सर्गसहनपरा ये मुनयस्ते घोरतपसः। पक्षमासषण्मासवर्षोपवासविधातारो ये मुनयस्ते महातपसः । "वर्षोपवासे सति पारणा भवति, केवलज्ञानं 'वोत्पद्यते, अतः परम् उपवासो न भवतीति निश्चयः । उग्रतपः-पञ्चम्यामष्टम्यां चतुर्दश्याञ्च गृहीतोपवासंत्रता अलाभद्वये अलाभत्रये वा त्रिभिरुपवासैश्चतुर्भिरुपवासः पञ्चभिर्वोपवासैः कालं निर्गमयन्ति इत्येवं १० प्रकारा उपतपसः। शरीरदीप्त्या द्वादशातेजस्का दीप्ततपसः। तप्तायसपिण्डपतितजलबिन्दु वत् गृहीताहारशोषणपरा नीहाररहिता ये ते तप्ततपसः। सिंहव्याघ्रादिसेवितपादपद्मा घोरगुणब्रह्मचारिणः । भूतप्रेतवेतालराक्षसशाकिनीप्रभृतयो यान् दृष्ट्या बिभ्यति ते घोरपराक्रमाः। बलर्द्धिनिप्रकारा । अन्तर्मुहूर्तेन निखिलश्रुतचिन्तनसमर्था ये ते मनोपलिनः। अन्तमुहूर्तेनाखिलश्रुतपाठशक्तयो ये ते वचोबलिनः। मासचतुर्मासषण्मासवर्षपर्यन्तकायोत्सर्ग१५ करणसमर्था अङ्गुल्यग्रेणापि त्रिभुवनमप्युद्धृत्य अन्यत्र स्थापनसमर्था ये ते कायबलिनः । __औषर्द्धिरष्टप्रकारा- विविलेपनेन, एकदेशमलस्पर्शनेन, अपक्काहारस्पर्शनेन, सर्वाङ्गमलस्पर्शनेन, निष्ठीवनस्पर्शनेन, दन्तकेशनखमूत्रपुरीषादिसर्वेण (दिस्पर्शनेन), कृपादृश्यवलोकनेन, कृपादन्तपीडनेन येषां मुनीनां प्राणिरोगाः नश्यन्ति ते अष्टप्रकारा औषधद्धयः ।। रसऋद्धिः षट प्रकारा। तपोबला मुनयो यमक्षिगतं प्राणिनं म्रियस्वेति वदन्ति सोऽक्षिगतः २० प्राणी तत्क्षणादेव महाविषपरीतो म्रियते एवंविधं सामर्थ्य येषां ते आस्यविषाः वाग्विषा अपर नामानः कथ्यन्ते । तपोबला मुनयः क्रुद्धाः सन्तो यमक्षिगतमीक्षन्ते स पुमान् तत्क्षणादेव "तीव्ररसपरीतः पञ्चत्वं प्राप्नोति एवं विधं सामर्थ्य येषां ते दृष्टिविषा इत्युच्यन्ते। येषां पाणिपात्रगतं भोजनं नीरसमपि क्षीरपरिणामि भवति, वचनानि वा क्षीरवत् क्षीणसन्तर्प काणि भवन्ति ते क्षीरस्राविण उद्यन्ते ११ । येषां पाणिपात्रगतमशनं नीरसमपि १२मधुरसपरि२५ णामि भवति, वचनानि वा श्रोतृणां १३मधुस्वादं जनयन्ति ते ५४मध्वालाविणः प्रोच्यन्ते। १५येषां पाणिपात्रगतमन्नं रूक्ष्मपि घृतरसपरिणामि भवति, वचनानि वा श्रोतृणां घृतपानस्वादं जनयन्ति ते १६ सर्पिरास्राविणः । येषां पाणिपात्रगतमन्नं वचनश्चामृतवद्भवति ते १७अमृतास्राविणः । १ अनेकोप भा० । २ मूर्ताकारक- भा०, द०।३ -व्याघ्रयक्षचि-व०।४ -तराभल्लकनज० | - तरक्षुभस्त्रकप्र-- आ०,१० । ५ सर्वोपवासे आ०, द०, ज० । ६ चोत्स- आ०, द०, ज० ० । ७-सवृत्ता ज० । -वासा भ-द०।८ -यस्तान् दृष्ट्वा येन विभ्यन्ति भा०,९०,ज०। ९ विड्लेपमा०, द०, ज० । १० तीवविषव्याप्तः। ११ उच्यन्ते श्रा०, ८०, १० । १२ मधुररस- प्रा०, द०, ज० । १३ मधुरस्वा- भा०,६०, ज०। १४ मद्यसा- ता० । १५ मा०, द०, ज० प्रतिषु अमृतासाविलक्षणं प्रथममस्ति । १६ घृतस्त्रावि- प्रा०, ९०, ज०। १७ अमृतस्त्रा-मा०, द०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy