________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३६ ]
तृतीयोऽध्यायः
विधाः ? बुद्धिः क्रिया विक्रिया तपो बलमौषधं रसः क्षेत्रं चेति ।
तत्र बुद्धि-ऋद्धिप्राप्ता अष्टादशभेदाः-अवधिज्ञानिनः, मनःपर्युयज्ञानिनः, केवलज्ञानिनः, २बीजबुद्धयः, कोष्टबुद्धयः, सम्भिन्नश्रोत्रिणः, पदानुसारिणः, दूरस्पर्शनसमर्थाः, दूररसनसमर्थाः, दूरघाणसमर्थाः, दूरश्रवणसमर्थाः, दूरावलोकनसमर्थाः, अभिन्नदशपूर्विणः, चतुर्दशपूर्विणः, अष्टाङ्गमहानिमित्तज्ञाः, प्रत्येकबुद्धाः, वादिनः, प्रज्ञाश्रमणाश्चेति ।
- बीजबुद्धिरिति कोऽर्थः ? एकबीजाक्षरात् शेषशास्त्रज्ञानं बीजबुद्धिः । कोष्ठबुद्धिरितिकोऽर्थः १ ४कोष्ठागारे संगृहीतविविधाकारधान्यवत् यस्यां बुद्धौ वर्णादीनि श्रुतानि बहुकालेऽपि न विनश्यन्ति सा कोष्ठवुद्धिः।।
क्रिया-ऋद्धिर्द्विप्रकारा–जङ्घादिचारणत्वम् , आकाशगामित्वम्चेति। तत्र जवाचारणत्वं भूम्युपरि चतुरङ्गुलान्तरिक्षगमनं जिवाचारणत्वम् । श्रेणिचारणत्वं विद्याधरश्रेणिपर्यन्ता- १० काशगमनम् । 'अग्निज्वालोपरि गमनम् अग्निशिखाचारणत्वम् । 'जलमस्पृश्य जलोपरि गमनं जलचारणत्वम् । पत्रमस्पृश्य पत्रोपरि गमनं पत्रचारणत्वम् । फलमस्पृश्य फलोपरि गमनं फलचारणत्वम् । पुष्पमस्पृश्य पुष्पोपरि गमनं पुष्पचारणत्वम् । बीजमस्पृश्य बीजोपरि गमनं बीजचारणत्वम् । तन्तुमस्पृश्य तन्तूपरि गमनं तन्तुचारणत्वचेति जवादिचारणत्वं नवविधम् ।
१ आकाशगामित्वं किम् ? पर्यङ्कासनेनोपविष्टः सन् आकाशे गच्छति । ऊर्ध्वस्थितो वा आकाशे गच्छति । सामान्यतयोपविष्टो वाआकाशे गच्छति । पादनिक्षेपोत्क्षेपणं विना आकाशे गच्छति आकाशगामित्वम् । इति क्रियाऋद्धिर्द्विप्रकारा।।
विक्रियर्द्धिः अणिमादिभेदैरनेकप्रकारा। सूक्ष्मशरीरविधानम् अणिमा । अथवा ११विशछिद्रेऽपि प्रविश्य चक्रवर्तिपरिवारविभूतिसर्जनमणिमोच्यते । महाशरीरविधानं महिमा । लघु- २० शरीरविधान लघिमा। गुरुशरीरविधानं गरिमा। भूमिस्थितोऽप्य१२ ( तस्याप्य ) गुल्यग्रेण मेरुशिखरचन्द्रसूर्यादिस्पर्शनसामर्थ्य प्राप्तिरुच्यते। जले भूमाविव गमनं भूमौ जल इव मज्जनोन्मजनविधानं प्राकाम्यम् । अथवा जातिक्रियागुणद्रव्य सैन्यादिकरणश्च प्राकाम्यम् । त्रिभुवनप्रभुत्वमीशित्वम् । सर्वप्राणिगणवशीकरणशक्तिर्वशित्वम् । पर्वतमध्येऽपि आकाश इव
१ -भेदाः केवलिनः अवधिज्ञानिनः मनःपर्ययज्ञानिनः बीज- ता०, प० । २ जीवबुद्धयः व०। ३ निमित्ताः आ०, ६०, ज०, ब० । ४ गोष्ठागा- आ०, द०, ब०, ज० । ५ क्रियद्धिद्धिआ०, द०, ज०। ६ एतत्पदं पुनरुक्तमस्ति । ७ -पर्यन्तमाका- ज० । पर्यन्तगताकाश- आ० । ८ अग्निचारणम् अग्निज्वालोपरिगमनम् आ०, द०, ज०, ५० । ९ जलचारणत्वं जलोपरिगमनम् मा०, २०, ज०, २० । १० आकाशगामित्वमिति सामान्यतयोपविष्टो आकाशे गच्छति पादनिक्षेपोरक्षेपणं विना आकाशगामित्वमिति आ०, द०, ज०। ११ वंशछिद्रेण प्रवि-व० । विशस्तन्तुनालः । १२ -स्थितोऽङगु- भा०, २०, ज०, ब० । १३ -द्रव्यं सै-ता. व० ।
For Private And Personal Use Only