________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्तौ
[ ३३५-३६ विभक्तः । तत्रापि पूर्वमेरुरपरमेरुश्च द्वौ मेरू वर्तते । तेन धातकीखण्डद्वीपवदत्रापि द्वौ पूर्वापरौ भरतो, क्षुद्रहिमवन्तौ द्वौ, द्वे च हैमवतक्षेत्रे, द्वौ महाहिमवन्तौ वर्षधरी, द्वे हरिक्षेत्रे, द्वौ निषधौ पर्वतो, द्वौ महाविदेही, द्वौ नीलो, द्वे रम्यकक्षेत्रे, द्वौ रुक्मिणौ पर्वतौ, द्वे हैरण्यवतक्षेत्रे, द्वौ
शिखरिणौ पर्वतो, द्वे ऐरावतक्षेत्रे, भरतैरावतापेक्षया चत्वारो विजयार्धाश्च, विदेहापेक्षया ५ अष्टषष्टिविजयार्डाः। एवं धातकीद्वीपविजयार्द्धाश्च वेदितव्याः। अयं तु विशेषः यथा
धातकीखण्डद्वीपे हिमवदादीनां वर्षधराणां विस्तारो जम्बूद्वीपहिमवदादिभ्यो द्विगुणः प्रोक्तः तथा पुष्कराहिमवदादीनां पर्वतानां धातकीखण्डहिमवदादिभ्यो वर्षधरेभ्यो द्विगुणो विस्तारो वेदितव्यः।
अथ पुष्कराधसंज्ञा इति कथम् ? २अत्रोच्यते-मानुषोत्तरपर्वतेन वलयाकारेण १० विभक्तार्द्धत्वात् पुष्करार्ध इति संज्ञा।।
'अथ पुष्कारार्धद्वीपे अर्धः पुष्कराधः किमिति वर्णितः कस्माच्चार्द्धः पुष्करार्द्धस्त्यक्तः' इति प्रश्ने सूत्रमिदमुच्यते
प्राङ मानुषोत्तरान्मनुष्याः ॥३५॥ मानुषोत्तरात्पर्वतात् पुष्करद्वीपबहुमध्यदेशभागवर्तिनः सकाशात् वलयाकारात् प्राक् १५ अंकि मनुष्याः मानवा वर्तन्ते, तेन कारणेन अर्ध एव वर्णितः । मानुषोत्तराद्वहिरर्धे
मानवा न सन्ति । बहिर्भागे भरतक्षेत्रादिहिमवत्पर्वतादिविभागोऽपि नास्ति । मानुषोत्तरादहिविद्याधरा न गच्छन्ति, ऋद्धिप्राप्ता मुनयोऽपि न यान्ति, नद्योऽपि बहिर्न गच्छन्ति किन्तु मानुषोत्तरं पर्वतमाश्रित्य तिष्ठन्ति । मानवक्षेत्रत्रसाश्च बहिर्न ब्रजन्ति । यदा मानुषो
त्तरपर्वतावहिर्भागे मृतो जीवः 'तिर्यङ् देवो वा मानुषक्षेत्रमागच्छति तदा मानवविग्रहगत्यानु२० पूर्येण समागच्छन् मानुषोत्तरादहि गेऽपि मनुष्य इत्युपचर्यते। तथा दण्डकपाटप्रतरलोकपूरणलक्षणसमुद्धातकाले मानुषोत्तरबहिर्भागे च मनुष्यो भवतीति लभ्यते।
अथ प्राङ् मानुषोत्तरान्मनुष्याः प्रोक्ताः, ते१० तु मनुष्याः कतिप्रकारा भवन्ति इति प्रश्ने सूत्रमिदमाहुः--
आर्या म्लेच्छाश्च ॥ ३६ ॥ २५ आर्यन्ते सेव्यन्ते गुणैर्गुणवद्भिर्वा इत्यार्याः। म्लेच्छन्ति निर्लज्जतया व्यक्तं ब्रुवन्ति
इति म्लेच्छाः। चकारः ११परस्परसमुच्चये वर्तते । तेनायमर्थः-आर्या म्लेच्छाश्चोभयेऽपि मनुष्याः कथ्यन्ते । तत्रार्याः द्विप्रकारा भवन्ति । कौ तौ द्वौ प्रकारौ ? एके ऋद्धिप्राप्ता आर्याः, १२अन्ये ऋद्धिरहिताश्च । १३ऋद्धिप्राप्ता आर्या अष्टविधाः । के ते अष्टौ
१-रुः प- ता०, आ० । २ अथोच्यते भा०, द०, ज० । ३ अर्धपु- भा०, द०, ज०, ५० । ४ किमतः व० । किमितः ता०। ५ -र्धपु- आ०, २०, ज०, २०। ६ अवाक् ता० । ७ -त्तरपआ०, ६०,ज०, 401 ८ तिर्य देवोपि वा आ० । ९ मनुष्या मवन्तोति आ०, द., ज० । १० ते म०, द०, ज०।११ परस्परे मा० । १२ अन्ये च ऋ-६०। १३ ऋद्धिप्राप्ताः ता०, व० ।
For Private And Personal Use Only