________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३।३३-३४ ]
तृतीयोऽध्यायः
१४५
अष्टादशयोजनवपुषः, अब्धिमध्ये तद्वद्विगुणकायाः । स्वयम्भूरमणोद्धेस्तदवर्तिनो मत्स्याः पञ्चशतयोजनदेहाः, अब्धिमध्ये तद्विगुणर्माणः । लवणोदकालोदपुष्करोदेषु सरित्प्रवेवेशद्वाराणि वर्त्तन्ते नान्येषु समुद्रेषु द्वाराणि सन्ति । तेषां वेदिका टङ्कोत्कीर्णभित्तिरिव वर्त्तते । reat धातकीखण्डद्वीपस्य भरतादिक्षेत्रसंख्या निगद्यते-
द्विर्धातकीखण्डे ॥ ३३ ॥
धातकीखण्डे द्वीपे भरतादीनि क्षेत्राणि द्विर्भवन्ति द्विगुणानि भवन्ति । कथम् ? धातकीखण्डद्वीपस्य दक्षिणस्यां दिशि इष्वाकारनामपर्वतो वर्तते । स पर्वतः लवणोदकालोदसमुद्रवेदिकास्पर्शी दक्षिणोत्तरायतः । तथा धातकीखण्डद्वीपस्योत्तरस्यां दिशि इष्वाकारनामा द्वितीयः पर्वतोऽस्ति । सोऽपि लवणोदकालोदसमुद्रवेदिकास्पर्शी दक्षिणोत्तरायतः । उभावपि sarart पर्वतौ प्रत्येकं चतुर्लक्षयोजनायतौ । ताभ्यां द्वाभ्यामिष्वाकाराभ्यां पर्वताभ्यां १० विभक्तो धातकीखण्डद्वीपः पूर्वधातकीखण्ड: अपरधातकीखण्डश्चेति द्विभागीकृतः । द्वयोर्द्वयोभगयोर्मध्ययोः पूर्वस्यां दिशि पूर्व मेरुः, अपरस्यां दिशि अपरमेरुः । तयोमेर्वोः सम्बन्धीनि भरतादीनि क्षेत्राणि द्विगुणानि भवन्ति । तेन पूर्वधातकीभरतः अपरधातकीभरतश्च धातकी - aurat aौ भरतौ वर्तेते । एवं पूर्व धातकीखण्डद्रहिमवान अपरधातकीखण्डक्षुद्रहिमवांश्च धातकीखण्डद्वीपे द्वौ क्षुद्र हिमवन्तौ पर्वतौ पूर्वधातकी खण्ड है मवतमपर धातकी खण्ड हैमवतच १५ a taad" क्षेत्रे, द्वौ महाहिमवन्तौ पर्वतौ द्वे हरिवर्षक्षेत्रे, द्वौ निषधौ पर्वतो, द्वौ विदेहौ,
नीलपर्वत, द्वे रम्यकक्षेत्रे, द्वौ रुक्मिणौ पर्वतौ द्वे हैरण्यवतक्षेत्रे, द्वौ शिखरिणौ पर्वतौ, द्वे ऐरावतक्षेत्रे । जम्बूद्वीपभरतैरावतक्षेत्रमध्यस्थितविजयार्ध पर्वतवत् चत्वारो विजयाद्धपर्वताः । एवं दक्षिणत आरभ्य उत्तरपर्यन्तं जम्बूद्वीपक्षेत्र पर्वतवत् धातकीद्वीपक्षेत्र पर्वता उभयतो वेदितव्याः । जम्बूद्वीपे हिमवदादीनां पर्वतानां यो विस्तार उक्तः स धातकीद्वीप - २० हिमवदादीनां पर्वतानां विस्तारोऽपि द्विगुणो वेदितव्यः, उन्नत्यवगाहौ समानौ । तथा विजयाद्ध वृत्तवेदायादयश्च समाना वर्त्तन्ते । ये हिमवदादयो वर्षधरनामानः पर्वताः ते चक्रस्य अरवदवस्थिता वर्तन्ते । वर्षधराणां मध्ये मध्ये ये वर्षाः क्षेत्राणि वर्त्तन्ते तानि अराणां "विवराकाराणि सन्ति ।
अथ पुष्करार्धक्षेत्रादिस्वरूपमाह
पुष्करार्द्ध च ॥ ३४ ॥
पुष्करार्द्ध द्वीपे च जम्बूद्वीपक्षेत्रादिकात् धातकीद्वीपक्षेत्रादिवत् द्विद्विगुणानि क्षेत्रादिद्रव्याणि भवन्ति । तेनायमर्थ:-- यथा धातकीद्वीपे द्वौ इष्वाकारौ वर्णितौ तथा पुष्करार्द्ध च asara पर्वत अष्टलक्ष योजनायतौ दक्षिणोत्तरयोः वर्त्तेते । ताभ्यां पुष्करार्धो द्विधा
१ - णकायावर्माणः आ० । २ –ष्करार्धेषु आ०, ब० ज० । ३ सर्वतः आ०, ६० ज० ॥ ४ -नि द्रव्याणि द्वि- ता० । ५ - वतक्षेत्रे ता० । ६ - यश्चत्वारो स-आ० । ७ व्यवरा - सा०, व०, भा०, ६० । ८ वत् द्वि- ज० ।
१९
For Private And Personal Use Only
५.
२५.