SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४ तत्त्वार्थवृत्ती [३३२ भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः ॥ ३२॥ भरतस्य भरतक्षेत्रस्य विष्कम्भो विस्तारः जम्बूद्वीपस्य जम्बूद्वीपविस्तारस्य एकलक्षयोजनप्रमाणस्य नवतिशतभागः-एकलक्षयोजनस्य नवत्यधिकाः शतभागाः क्रियन्ते, तेषां मध्ये एको भागो भरतक्षेत्रस्य विस्तारो वेदितव्य इत्यर्थः। स एको भागः षड्विंशत्यधिक५ पश्चयोजनशतप्रमाणः षट् कलाधिको भवतीति तात्पर्यम् । जम्बूद्वीपस्यान्ते या वेदिका वर्तते सा लक्षयोजनमध्ये गणनीया, समुद्रविस्तारमध्ये न गण्यते । एवं सर्वेषां द्वीपानां या वेदिकाः सन्ति ताः सर्वा अपि द्वीपविस्तारमध्ये गण्यन्ते न तु समुद्रविस्तारमध्ये गण्यन्ते । लवणोदसमुद्रमध्यप्रदेशेषु पूर्वपश्चिमोत्तरदक्षिणेषु दिग्भागेषु चतुषु चत्वारः पातालसम्ज्ञका वडवा नलाः सन्ति ते अलक्षलाकाराः प्रत्येकं लक्षयोजनगम्भीराः, ते मध्यप्रदेशे लक्षयोजन१० विस्ताराश्च भवन्ति । ते मुखेषु मूलेषु च दशयोजनसहस्रविस्तारा भवन्ति । तथा लवणसमुद्र मध्येषु चतसृषु विदिक्षु क्षुद्रवडवानलाश्चत्वारः। ते चत्वारोऽपि प्रत्येकं दशसहस्रयोजनगम्भीरा भवन्ति । मध्यप्रदेशेषु दशसहस्रयोजनविस्ताराश्च सन्ति । मुखेषु मूलेषु च एकयोजनसहस्रविस्तारा भवन्ति । अष्टानामप्यौं वर्वाणामष्टस्वप्यन्तरालेषु एकैकस्मिन्नन्तराले श्रेणिरूपस्थिताः सपादशतसंख्या वाडवा भवन्ति । ते तु योजनसहस्रगम्भीराः, तथा १५ मध्ये योजनसहस्रविस्ताराः, मुखेषु मूलेषु च पञ्चयोजनशतविस्ताराः । एवमेकत्वे अष्टाधिकसहस्रसंख्याः प्रसिद्धा वडवानला वेदितव्याः। तेषामप्यन्तरालेषु क्षुद्रक्षुद्रतरा और्वा अप्रसिद्धा बहवः सन्ति । सर्वेषां वडवानलानां त्रयो भागाः। तत्राधस्तनभागेषु वायुरेव वर्तते मध्यभागेषु वायुजले वर्तते । उपरितनभागेषु केवलं जलमेव । यदा वायुमन्दं मन्दम धस्तनभागेभ्यो मध्यमभागेषु चरति । तदा मध्यभागजलं मरुत्प्रेरितमुपरितनभागेषु चरति । २० ततः सौर्वजलमिलितमब्धिजलं वेलादिरूपतया बर्द्धते । यदा पुनः मन्द मन्दं नभस्वानधो भागेषु गच्छति तदा वेलादिरूपा स्फीति निवर्तते । लवणोद एव वेला वर्तते नान्येषु समुद्रेषु । अन्येषु समुद्रेषु वडवानला न सन्ति । यस्मात्सर्वेऽपि अब्धय एकयोजनसहस्रगम्भीराः। लवणोदस्यैव जलमुन्नतं वर्तते, अन्येषां जलं समं प्रसृतमस्ति । लवणोदो लवणस्वादः । वारुणी समुद्रो मद्यस्वादः । क्षीरोदो दुग्धस्वादः। घृतोदो घृतस्वादः । कालोदः पुष्करोदश्च स्वयम्भूर२५ मणोदश्चं त्रय एते अम्बुस्वादाः । शेषाः सर्वेऽपि इक्षुस्वादाः। लवणोदकालोदस्वयम्भूरम णोदास्त्रयः कच्छपमत्स्या"दिजलचरसहिताः । अन्ये सर्वेऽपि निर्जलचराः । लवणोदे सरिन्मुखेषु मत्स्या नवयोजनाङ्गाः, अब्धिमध्ये तद्विगुणशरीराः। कालोदे सरिन्मुखेषु १ -व्यः स आ०, ब०, द०, ज० । २ अञ्चलाका- आ०, ६०, ज०, ब० । ३ -के योभा०, ६०, ज०, ब०। ४ -शेषु ल- आ०, द०, ज० ब०, ब० । ५ -न्ति तथा म- आ०, २०, ज०, ब०। ६ और्वः वाडवाग्निः । ७ -नप्यन्त- ज०। ८ च यो- मा०, ब०, ९०, ज० । च एकयो- व०। ९ -तिनिवर्त- ज०, व० । १० -श्च एते त्रयः अ- आ०, द०, ज० । ११ -दः कालोदः स्वयम्भूमरणोदश्च एते त्रयः ज० । १२ -दिस- भा०, द०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy