________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४३
३।३०-३१]
तृतीयोऽध्यायः भवा देवकुरवकाः। हैमवतकाश्च 'हारिवर्षकाश्च देवकुरवकाश्च हैमवतकहारिवर्षकदेवकुरवकाः । अस्यामर्थः-पञ्चमेरुसम्बन्धिनां पश्चानां हैमक्तक्षेत्राणां सम्बन्धिना मनुष्याणां सदा सुषमदुःषमाकालानुर्भवनम् , आयुःस्थितिरेकपल्योपमा द्विधनुःसहस्रोन्नतिः, एकान्तरेण मुक्तिश्च इन्दीवरवर्णवर्णश्च । पञ्चानां हरिवर्षक्षेत्राणां सम्बन्धिना मनुष्याणां सदा सुषमाकालानुभवनम् , आयु.स्थितिः द्विपल्योपमा, चतुश्चापसहस्रोन्नतिश्च द्विदिनान्तरेण भुक्तिश्च, ५ कुन्दावदातानि शरीराणि । पञ्चानां देवकुरूणां सम्बन्धिनां मनुष्याणां सदा सुषमसुषमाकालानुभवनम् , आयुःस्थितिः त्रिपल्योपमा, षट्धनुःसहस्रोन्नतिश्च, त्रिदिनान्तरेण भुक्तिः, काञ्चनवर्णानि शरीराणि। तर्हि हैरण्यवतरम्यकोत्तरकुरूणां मनुष्याः कीदृशाः सन्तीति प्रश्ने सूत्रमिदमाचष्टे
तथोत्तराः ॥ ३० ॥ तथा तेनैव हैमवतादिक्षेत्रत्रयमनुष्यप्रकारेण उत्तराः हैरण्यवतरम्यकोत्तरकुरूणां मनुष्या ज्ञातव्याः । अस्यायमर्थः-हैमवत्तक्षेत्रमनुष्यसदृशा हैरण्यवतक्षेत्रमनुष्याः। हरिवर्षक्षेत्रमनुष्यसदृशा रम्यकक्षेत्रमनुष्याः । देवकुरुक्षेत्रमनुष्यसदृशा उत्तरकुरुक्षेत्रमनुष्याः । तर्हि पूर्वविदेहाऽपरविदेहमनुष्याणां स्थितिः कीदृशी वर्तते इति प्रश्ने सूत्रमिदमाचष्टे
विदेहेषु संख्येयकालाः ॥३१॥ विगतो विनष्टो देहः शरीरं मुनीनां येषु ते विदेहाः प्रायेण मुक्तिपदप्राप्तिहेतुत्वात् , तेषु विदेहेषु पञ्चानां मेरूणां सम्बन्धिनः पञ्चपूर्व विदेहाः पञ्चापरविदेहाः उभये मिलित्या पञ्चमहाविदेहाः कथ्यन्ते । तेषु मनुष्याः संख्येयकालाः, संख्यायते गणयितुं शक्यते, संख्येयः, उत्कर्षेण पूर्वकोटिलक्षणः जघन्येनान्तमुहूर्तलक्षणः संख्येयः कालो जीवितं येषां ते संख्येयकालाः । अस्यायमर्थः-सर्वेषु पञ्चसु महाविदेहेषु सदा सुषमदुःषमाकालान्तकाल- २० सदृशो दुःषमसुषमानामकः सदा निश्चलः कालो वर्तते । तत्र पञ्चजनाः पञ्चचापशतोन्नता भवन्ति, नित्यभोजनाश्च वर्तन्ते । किं तत् पूर्वं येन गणितं तेषामायुः ? तथा चोक्तम्
"पुत्वम्स दु परिमाणं सदरिं खलु कोडिसदसहस्साई । छप्पण्णं च सहस्सा बोधव्या वासकोडीणं ॥"
[जम्बू० प० १३।१२] २५ अस्यायमर्थः-सप्ततिलक्ष कोटिवर्षाणि षट्पञ्चाशत्सहस्रकोटिवर्षाणि यदा भवन्ति तदा एकं पूर्वमुच्यते । तस्य पूर्वस्य अङ्कक्रमो यथा-दशशून्यानि तदुपरि षट्पञ्चाशत् तदुपरि सप्ततिः--७०५६००००००००००। ईदृग्विधानि पूर्वाणि शतलक्षाणि तेषां मनुष्याणायुर्भवति।
अथेदानीं पुनरपि भरतक्षेत्रस्य प्रमाणं प्रकारान्तरेण निरूपयन्त्याचार्याः
१ हारिवर्षाश्च मा०, ज० | २ -भावनामा- ता०, व० । ३ -युः पु- ता० । ४ पूर्वस्य तु परिमाणं सप्ततिः खलुकोटिशतसहस्राणि । षट्पञ्चाशत् च सहस्राणि बोद्धव्यानि वर्षकोटीनाम् ||
For Private And Personal Use Only