________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२ तत्त्वार्थवृत्तौ
[ ३।२८-२९ दुःषमानामकश्चतुर्थः कालः । स द्विकोटीकोटिसागरोपमप्रमाणः जघन्यभोगभूमिस्वभावः । तथा सुषमानामकः पञ्चमः कालः त्रिसागरोपमकोटीकोटिप्रमाणः। तत्र मध्यमभोगभूमिस्वभावः । तथा सुषमसुषमानामकः षष्ठः कालः चतुःसागरोपमकोटीकोटिप्रमाणः । तत्रोत्तमभोगभूमिस्वभावः । एवं चतुर्थपञ्चमषष्ठकालेषु ईतिरेकापि 'न भवति। अहोरात्रि५ विभागोऽपि नास्ति । ज्योतिरङ्गकल्पवृक्षोद्योतेन सदैव दिवसः । मेघवृष्टिनास्ति । शीत
बाधापि न वर्तते । आतपकष्टं कदाचिदपि उन वर्तते । क्रूरमृगबाधा नास्त्येव । अत्र दशसागरोपमकोटीकोटिप्रमाण उत्सर्पिणीकालः समाप्तः । तदनन्तरमवसर्पिणीकालः प्रवर्त्तते । स पूर्वोक्तलक्षणो ज्ञातव्यः । एवमष्टादशसागरोपमकोटीकोटिप्रमाणः कालः भोगभूमिमयो
ज्ञातव्यः। उत्सर्पिण्यवसर्पिणीनामकाभ्यां द्वाभ्यां कालाभ्यां कल्पः कथ्यते । भोगभूमिजा १० मनुष्याः स्वभावेन मधुरभाषिणो भवन्ति । "सर्वकलाकुशलाः सर्वेऽपि समभोगा अरजोऽम्बरा
निःस्वेदा ईर्ष्यामात्सर्यादिरहिता बलित्वावलित्वमुक्ता अनाचारकार्पण्यकोपाद्यरुचिग्लानिमयविषादकामज्वरोन्मादविरहलालाशरीरमलनिद्रात्यु (क्ष्यु ) न्मेषनिमेषदैन्यचिन्ताऽनिष्टयोगेष्टवियोगातङ्कजरारहिताः। शुन्मात्रेण त्रियो म्रियन्ते । जृम्भितमात्रेण पुरुषाः पञ्चत्वमा१५ प्नुवन्ति। तत्र नपुंसकः कोऽपि नास्ति । मृगाः सर्वेऽपि विशिष्टतृणचारिणः समानायुषश्च भवन्तीति विशेषः ।
___ अथ भरतैरावतमनुष्यस्वरूपनिरूपणानन्तरं हैमवतहरिवर्षदेवकुरुक्षेत्रत्रयस्वभावोद्भावनार्थं सूत्रमिदमुच्यते
ताम्यामपरा भूमयोऽवस्थिताः ॥ २८ ॥ २० ताभ्यां भरतैरावताभ्यां क्षेत्राभ्याम् अपरा अन्या भूमयः हैमवतक्षेत्रहरिक्षेत्रदेवकुरुनामिकास्तिस्रो भूमयोऽवस्थिताः सर्वदेव एकः कश्चित्कालस्तासु वर्तते। हैमवतक्षेत्रे सदेव तृतीयः कालोऽस्ति, हरिक्षेत्रे द्वितीयः, देवकुरुषु प्रथमः कालः । अवसर्पिण्याः कालेन सदृश इत्यर्थः । परं त्वत्र उत्सपिण्यसपिण्यौ कालौ न वर्तेते।
'तर्हि त्रिष्वपि क्षेत्रेषु मनुष्या आयुषा सदृशाः सन्ति, अथवा अस्ति कश्चिद्विशेषः' २५ इत्युक्ते त्रयाणामपि क्षेत्राणां मनुष्याणामायुर्विशेषप्रतिपत्त्यर्थं सूत्रमिदमाचष्टेएकदित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदैवकुरवकाः ॥२९॥
एकश्च द्वौ च त्रयश्च एकद्वित्रयः ते च ते पल्योपमा एकद्वित्रिपल्योपमाः कालविशेषाः, ते स्थितयः आयू षि येषां ते एकद्वित्रिपल्योपमस्थितयः। ईदृशाः के ? हैमवतकहारिवर्षकदैवकुरवकाः । हैमवतक्षेत्रे भवा हैमवतकाः। हरिवर्षक्षेत्रे भवा हारिवर्षकाः। देवकुरुक्षेत्रे
१ नास्ति आ०, द०, ज०। २ -वृक्षघातेन ता० । ३ नास्ति आ०, द०, ज०, ब० । ४ -भूमयो ज्ञा-आ०।-भूमिजो ज्ञा- ज० ।५ -कलासु कु-ता०, ३० । ६ छिक्कामात्रेण । ७ -त्वं प्राप्नु-आ०,ज०।८ प्रथमका- आ०, ज०,व०। ९तत्र ता०, आ०,९०,ज०।
For Private And Personal Use Only