________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३।२७]
तृतीयोऽध्यायः भव्वा वि य णिरयगई हिंसादोसेण गच्छंति ॥"
[तिलोयसा० गा० ८३५] तस्य चतुर्थकालस्यान्ते विंशत्यधिकशतवर्षायुषो मनुष्याः सप्तहस्तोन्नताश्च ।
दुःषमानामकः पञ्चमः' काल एकविंशतिवर्षसहस्रप्रमाणः, तदादौ विंशत्यधिकशतवर्षायुषो मनुष्याः सप्तहस्तोन्नताः तदन्ते विंशतिवर्षायुषो मनुष्याः सार्द्धत्रयहस्तोन्नताश्च । ५ ततोऽतिदुःषमानामकः षष्ठः कालः स एकविंशतिवर्षसहस्राणि प्रवर्त्तते । तदादौ विंशतिवर्षायुषो मनुष्याः, तदन्ते षोडशवर्षायुषो मनुष्या एकहस्तोन्नताश्च । तस्यान्ते प्रलयकालो भवति । तदुक्तम्
"सरसं विरसं तीक्ष्णं रूक्षमुष्णविषं विषम् ।
क्षारमेघाः क्षरिष्यन्ति सप्तसप्तदिनान्यलम् ।।" [ ] १० सर्वस्मिन्नार्यखण्डे प्रलयं गते सति द्वासप्ततिकुलमनुष्ययुगलानि उध्रियन्ते । चित्राभूमिः समा प्रादुर्भवति । अत्रावसर्पिणी समाप्ता दशकोटीकोटिसागरोपमप्रमाणा । तदनन्तरं दशकोटीकोटिसागरोपमप्रमाण उत्सर्पिणीकालः प्रवर्तते । तस्यादौ अतिदुःषमासंज्ञकः प्रथमः काला प्रवर्तते । तस्यादौ एकोनपञ्चाशदिनपर्यन्तं क्षीरमेघा अहर्निशं वर्षन्ति । तदनन्तरं तावदिनपर्यन्तममृतमेघा वर्षन्ति । पृथिवी रूक्षतां मुञ्चति । तन्मेघमाहात्म्येन वर्णादिगुणो १५ भवति, औषधितरुगुल्मतृणादीनि सरसानि भवन्ति, पूर्वोक्तानि युगलानि बिलादिभ्यो निर्गत्य औषध्यादिसस्यादीनि सरसान्युपजीव्य सहर्षाणि जीवन्ति । स कालः एकविंशतिवर्षसहस्राणि प्रवर्तते । तदादौ षोडशवर्षायुषो मनुष्या एकहस्तोत्सेधाश्च । तस्य कालस्यान्ते विंशतिवर्षायुषो मनुष्याः सार्द्ध हस्तत्रयोन्नताश्च । तदनन्तरं दुःषमानामको द्वितीयः कालः । स एकविंशतिवर्षसहस्रप्रमाणः। तदादौ विंशतिवर्षायुषो मनुष्याः सार्द्धहस्तत्रयोत्सेधाः । २० तस्य द्वितीयकालस्यान्ते वर्षसहस्रावशेषे स्थिते सति चतुर्दशकुलकरा उत्पद्यन्ते । ते अवसर्पिणीपञ्चमकालनृपसदृशाः । तद्वर्षसहस्रमध्ये त्रयोदशानां नृपाणां विनाशो भवति । "चतुर्दशस्तु कुलकर उत्पद्यते तद्वर्षसहस्रमध्ये, विपद्यते तु तृतीयकालमध्ये । तस्य चतुर्दशस्य कुलकरस्य पुत्रस्तीर्थङ्करो भवति। तस्य तीर्थङ्करस्य पुत्रश्चक्रवर्ती भवति । तद्यस्याप्युत्पत्तिःषमसुषमानाम्नि तृतीयकाले भवति, विनाशस्तु त्रयाणामपि भवति । तस्यादौ विंशत्य- २५ धिकशतवर्षायुषो मनुष्या भवन्ति, सप्तहस्तोत्सेधाः भवन्ति । स काल एककोटीकोटिसागरोपमप्रमाणः प्रवर्त्तते, परं द्वाचत्वारिंशद्वर्षसहस्रोनः । तन्मध्ये शलाकापुरुषा उत्पद्यन्ते । तस्य कालस्यान्ते कोटिपूर्ववर्षायुषो मनुष्याः सपादपञ्चशतधनुरुत्सेधाः। तदनन्तरं सुषम
१-मका- आ०, ब०, द०, ज० । २ -नामा ष- भा०, ब०, द०, ज०। ३ वर्षादिआ०, द०, ज० । ४ -धास्त- ता० । ५ चतुर्दशकु- आ०, ब०, द०, ज०। ६ -करा उत्पद्यन्ते आ०, द० । -कर उत्पद्यन्ते ज०, व० । ७ वाक्यमेतन्नास्ति भा०, ब०, ज०, ३० ता० ।
For Private And Personal Use Only