________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्तौ
१४०
[ ३२७ सीमाकारकः । षष्ठकुलकरः पल्यदशलक्षभागैकभागजीवितः अतिविरलकल्पवृक्षत्वे अत्यल्पफलत्वे च गुल्मादिचिह्नः कल्पवृक्षसीमाकारकः । सप्तमकुलकरः पल्यकोटिभागेकभागजीवितः शौर्याधुपकरणोपदेशगजाद्यारोहणकारकः । अष्टमकुलकरः पल्यदशकोटिभागैकभागजीवितः अपत्यमुखदर्शनमात्रोत्पन्नभयविनाशकः। नवमकुलकरः पल्यशतकोटिभागैकभागजीवितः अपत्याशीर्वाददायकः । दशमकुलकरः पल्यसहस्रकोटिभागेकभागजीवितः अपत्यानां रोदने सति चन्द्रादिदर्शनक्रीडनोपायदर्शकः । एकादर्शकुलकरः पल्यसहस्रकोटिभागेकभागजीवितः, तस्य काले युगलानि अपत्यैः सह कतिचिदिनानि जीवन्ति । द्वादश. कुलकरः पल्यलक्षकोटिभोगकभागजीवितः, तस्य काले युगलानि अपत्यैः सह बहुकालं
जीवन्ति, स युगलानां जलतरणोपायप्रवहणादिरचनाकारकः, तथा पर्वताद्यारोहणाऽवरोहणो.१० पायसोपानादिकारकः । तस्य काले अत्यल्पमेघा अत्यल्पवृष्टि कुर्वन्ति । तेनैव कारणेन
कुनद्यः कुपर्वताश्चोत्पद्यन्ते। त्रयोदशकुलकरः पल्यदशलक्षकोटिभागकभागजीवितः, स कुलकरः अदृष्टपूर्वजरायुःप्रभृतिमलं निराकारयति । चतुर्दशकुलकरः पूर्वकोटिवर्षजीवितः, सोऽपत्यानामदृष्टपूर्व नाभिनालं भीतिजनकं कर्त्तयति । तस्य काले प्रचुरमेघाः प्रचुरवृष्टिं
कुर्वन्ति, अकृष्टपच्यानि सस्यादीनि चोत्पद्यन्ते । तद्भक्षणोपायमजानानां युगलानां तद्भक्षणो१५ पायं दर्शयति । अभक्ष्याणामौषधीनामभक्ष्यवृक्षाणाञ्च परिहारश्च कारयति । कल्पवृक्षविनाशे
क्षुधितानां युगलानां सस्यादिभक्षणोपायं दर्शयति । पञ्चदशकुलकरस्तीर्थङ्करः । तत्पुत्रः षोडशकुलकरश्चक्रवर्ती भवति । तौ द्वावपि चतुरशीतिलक्षपूर्वजीवितौ । तच्चरित्रं महापुराणप्रसिद्धं ज्ञातव्यम्।
दुःषमसुषमानामकः चतुर्थः कालः स एकसागरोपमकोटीकोटिप्रमाणः द्विचत्वारिंशद्२० वर्षसहस्रोनः, तस्यादौ मानवा विदेहमानवसदृशाः पञ्चशतधनुरुन्नताः। तत्र त्रयोविंशतिस्ती
र्थङ्करा उत्पद्यन्ते "निर्वान्ति च । एकादश चक्रवर्तिनः नव बलभद्राः नव घासुदेवाः नव प्रतिवासुदेवा उत्पद्यन्ते, एकादश रुद्राश्च । तदुक्तम्
"दोरिसहअजियकाले सत्ता पुष्फयंतआईहिं ।
उप्पण्णा अट्ठहरा एक्को चिय वीरकालमि ॥" [ नव नारदाश्चोत्पद्यन्ते । तदुक्तम्
"कलहपिया कयाचिय धम्मरया वासुएवसमकालाः।
१ -कारः आ०, ज० । २ -दशमकु- आ० । ३ -भागजी- आ०, ज० । -भागैकजीद०। ४ -दुशः कु- ता०, व० । ५ निर्वाणं यान्ति आ०, ब०, द०, जल, व०। ६ -द्राः तता० । ७ -हरणा ए- आ०। ८ तुलना-"उसहदुकाले पढमदु सत्तण्णेसत्सुविहिपहुदीसु । पीढो संतिजिणिंदे वीरे सच्चइसुद्रो जादो ॥” -तिलोयसा० गा० ८३७ । द्वौ ऋषभाजितकाले सप्तान्ताः पुष्पदन्तादिभिः । उत्पन्नाः अष्टधरा एकश्च वीरकाले । ९ कलहप्रियाः कदाचिद्धर्मरता वासुदेवसमकालाः। भव्या अपि च नरकगति हिंसादोषेण गच्छन्ति ।।
For Private And Personal Use Only