SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३।२७ ] तृतीयोऽध्यायः १३९ लस्य सम्बन्धिनः षट्समया उच्यन्ते सुषमसुषमा प्रथमकालः । सुषमा द्वितीयकालः । सुषमदुःषमा तृतीयकालः । दुःषमसुषमा चतुर्थकालः । दुःषमा पश्चमकालः । अतिदुःषमा षष्टकालः । अथ उत्सर्पिण्या: सम्बन्धिनः षट्समया निर्दिश्यन्ते - अतिदुःषमा प्रथमकालः । दुःषमा द्वितीयकालः । दुःषमसुषमा तृतीयकालः । सुषमदुःषमा चतुर्थकालः । सुषमा पश्चमकालः । सुषमसुषमा षष्ठकालः । अथ किमर्थं सूत्रे उत्सर्पिण्या: पूर्वं ग्रहणम् इदानीमवस - ५ पिंण्यो वर्तमानत्वात् ; सत्यम् ; "अल्पस्वरतरं तत्र पूर्वम्” [कात० २/५/११२] इति वचनात् यदल्पस्वरं पदं भवति तत्पूर्वं निपततीति कारणात् । तत्रावसर्पिणीकालस्य यः प्रथमः कालः सुषम सुषमानामकः स चतुः सागरकोटीकोटिप्रमाणः । यस्तु सुषमानामको द्वितीयः कालः स त्रिसागरकोटी कोटिप्रमितः । यः सुषमदुःषमा नामकस्तृतीयः कालः स द्विसागरकोटी को टिसम्मितः । यो दुःषमसुषमा नामक चतुर्थः कालः स एकसागरोपमै कोटी कोटिप्रमाणः परं द्वाचत्वा - १०. रिंशत्सहस्रवर्षोनः । यस्तु दुःषमानामकः पञ्चमः कालः स एकविंशतिवर्षसहस्रप्रमाणः । यस्तु अतिदुःषमानामकः षष्ठः कालः सोप्येकविंशतिवर्षसहस्रप्रमाणः । अथ योऽसौ उत्सर्पिणीकालसम्बन्धी अतिदुःषमानामकः प्रथमः कालः स एकविंशतिवर्षसहस्रप्रमाणः । यस्तु दुःषमानामको द्वितीयः कालः सोऽप्येकविंशतिवर्षसहस्रप्रमाणः । यस्तु दुःषमसुषमानामकस्तृतीयः कालः स एकसागरोपमकोटीकोटिप्रमाणः परं द्वाचत्वारिंशद्वर्षसहस्रहीनः । यस्तु सुषमदुःषमा १५ चतुर्थः कालः स द्विसागरोपम कोटी कोटिप्रमितः । यस्तु सुषमानामकः पञ्चमः कालः स त्रिसागरोपमकोटी कोटिस म्मितः । यस्तु सुषमसुषमानामकः षष्ठः कालः स चतुः सागरोपमकोटीकोटिप्रमाणः । अवसर्पिण्या सम्बन्धिनि प्रथमकाले आदौ पूर्वोक्तोत्तमभोगभूमिचिह्नानि ज्ञातव्यानि । द्वितीयकाले आदौ पूर्वोक्तमध्यमभोगभूमि चिह्नानि" वेदितव्यानि । तृतीयकाले आदौ पूर्वोक्तजघन्यभोगभूमिलक्षणानि लक्षितव्यानि । हानिरपि क्रमेण ज्ञातव्या । २० तृतीयकाले पल्यस्याष्टमे भागे स्थिते सति षोडश कुलकरा उत्पद्यन्ते । तत्र षोडशकुलकरेषु मध्ये पञ्चदशकुलकराणामष्टम एव भागे विपत्तिर्भवति । षोडशस्तु कुलकरः उत्पद्यते अष्टम एव भागे विनाशस्तु तस्य चतुर्थकाले भवति । तत्र प्रथमकुलकर एकपल्यस्य दशमभागायुः ज्योतिरङ्गकल्पवृक्षमन्दज्योतिस्त्वेन चन्द्रसूर्यदर्शनोत्पन्नं भयं युगलानां निवारयति । द्वितीयः कुलकर: पल्यशतभागक [भाग ] जीवितो ज्योतिरङ्गकल्पवृक्षातिमन्दज्योतिस्त्वेन २५ तारकादिदर्शनोत्पन्नयुगलभयनिवारकः । तृतीयः कुलकरः पत्यसहस्रभागक भागजीवितो विकृतिगतसिंहव्याघ्रादिक्रूरमृगपरिहारकारकः । चतुर्थः कुलकरः पल्यदशसहस्रभागेकभागजीवितः अतिविकृतिगतसिंहव्याघ्रादिक्रूरमृगरक्षा निमित्तलकुटादिस्वीकारकारकः । पश्चमकुलकरः पल्यलक्षभागेकभागजीवितो विरलकल्पवृक्षत्वे अल्पफलत्वे च वाचा कल्पवृक्ष - For Private And Personal Use Only , १ - प्या तत्र व- ज० । २ यः सुषमानाम- ता० । ३ -मकोटाको ज० । ४ मका- . आ०, द०, ज०, ब० । ५ - निज्ञात- भा०, ब०, ५०, ज० । ६ -त्पन्नभ- आ०, ब०, द०, ज० । ७ - कजी - भा० द०, ब० ज० । ८ स्वीकारकः आ०, ब०, ५०, ब० ।
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy