________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
तत्त्वार्थवृत्ती
[३।२७ धरैः तुल्याः सदृशा भवन्ति । अस्यायमर्थः-भरतक्षेत्रस्य यावान् विस्तारः तावान् ऐरावतक्षेत्रविस्तारः। हिमवत्पर्वतस्य यावान् विस्तारस्तावान् शिखरिपर्वतविस्तारः। हैमवतक्षेत्रस्य यावान् विस्तारः तावान् हैरण्यवतक्षेत्र विस्तारः। महाहिमवत्पर्वतस्य यावान् विस्तारः तावान्
रुक्मिपर्वतविस्तारः। हरिक्षेत्रस्य यावान्विस्तारस्तावान् रम्यकक्षेत्र विस्तारः । निषधपर्वतस्य ५ यावान्विस्तारस्तावान् नीलपर्वतविस्तारः । एवम् ऐरावतादिस्थितं हृदपुष्करादिकं भरतादिसदृशं
ज्ञातव्यम् । भरतयोजन ५९६ कला ६। हिमवत्पर्वतयोजन १०५२ कला १२ । हैमवतक्षेत्रयोजन २१०४ कला २४। महाहिमवत्पर्वतयोजन ४२०८ कला ४८ । हरिक्षेत्रयोजन ८४१६ कला ५६। निषधपर्वतयोजन १६८३२ कला १९२ । विदेहयोजन ३३६६४ कला ३८४ ।
नीलयोजन १६८३२ कला १९२ । रम्यकक्षेत्रयोजन ८४१६ कला ९६ । रुक्मिपर्वतयोजन ४२०८ १० कला ४८ । हैरण्यवतक्षेत्रयोजन २१०४ कला २४ । शिखरिपर्वतयोजन १०५२ कला १२ । ऐरावतक्षेत्रयोजन ५२६ कला ६। एवमेकत्र योजनैकलक्षम् ।
अथेदानीं भरतादिक्षेत्रमनुष्यविशेषप्रतिपत्त्यर्थं सूत्रमिदमाहुःभरतैरावतयोवृद्धिहासौ षट्समयाभ्यामुत्सपिण्यवसर्पिणीभ्याम् ॥२७॥
भरतश्च ऐरावतश्च भरतैरावतौ तयोः भरतैरावतयोः। सम्बन्वे षष्ठी। तत्रायमर्थः१५ भरतस्य ऐरावतस्य च सम्बन्धिना मनुष्याणां भोगोपभोगसम्पदायु परिमाणाङ्गोन्नतिप्रभृतिभिः
वृद्भिहासौ भवतः। वृद्धिश्च ह्रासश्च वृद्धिहासौ, उत्सर्पणावसर्पणे भोगादीनां भवतः न तु भरतक्षेत्रस्य वृद्धिहासौ भवतः, क्षेत्रयोर्वृद्धिह्रासयोरसंगच्छमानत्वात्, तेन तत्रस्थितमनुष्याणां भोगोपभोगादिषु वृद्धिहानी स्याताम् । 'भरतरावतयोः' इत्यत्र यत्प्रोक्तं षष्ठीद्विवचनं तत्केचिदा
चार्याः 'नोररीकुर्वते । किं तर्हि उररीकुर्वन्ति ? सप्तमीद्विवचनमुररीकुर्वन्ति । तेनायमर्थः-भरते २० ऐरावते च क्षेत्रे मानवानामित्यध्याहारात् वृद्धिहासौ भवतः, अनुभवायुःप्रमाणानां वृद्धिहानी
स्यातामित्यर्थः। कोऽसौ अनुभवः किं वा आयुः किं वा प्रमाणमिति चेत् ? उच्यते--अनुभवः सुखदुःखयोरुपयोगः, आयुः जीवितकालप्रमाणम् , प्रमाणं तु कायोत्सेधः, इत्येतेषां त्रयाणामपि वृद्धिहासौ पञ्चजनानां भवतः । काभ्यां हेतुभ्यां नृणां भोगोपभोगादीनां वृद्धिह्रासौ
भवतः इत्युक्ते उत्सर्पिण्यवसर्पिणीभ्यां द्वाभ्यां कालाभ्यां वृद्धिहासौ भवतः । उत्सर्पयति वृद्धि २५ नयति भोगादीन् इत्येवंशीला उत्सर्पिणी, अवसर्पयति हानि नयति भोगादीन इत्येवंशीला
अवसर्पिणी, उत्सर्पिणी च अवसर्पिणी च उत्सर्पिण्यवसर्पिण्यौ ताभ्याम् उत्सर्पिण्यवसर्पिणीभ्याम् । कथम्भूताभ्यामुत्सर्पिण्यवसर्पिणीभ्याम् ? षट्समयाभ्यां षट् षट् समयाः कालविशेषाः विद्यन्ते ययोस्ते षट्समये ताभ्यां षट्समयाभ्याम् । तत्र तावत् अवसर्पिणीका
१ उत्सपिण्या अवसपिण्या भो- आ०, द०, ज० । उत्सणावसणभो-व० । २ नोररीकुर्वन्ति स- आ०, ब०, द०, ज० । ३ “अथवा अधिकरणनिर्देशः, भरते ऐरावते च मनुष्याणां वृद्धिहासाविति ।" -स: सि०, राजवा० ३।२७ । ४ -कालपरिमा- आ०, ब०, द०, ज० ।
For Private And Personal Use Only