________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६।२४-२६ ] तृतीयोऽध्यायः
१३७ अथेदानी भरतक्षेत्रस्य प्रमाणनिरूपणार्थ सूत्रमिदमाहुःभरतः षड्विंशपश्चयोजनशतविस्तारः षट् चैकोनविंशति-..
भागा योजनस्य ॥२४॥ षभिरधिका विंशतिः षड्विंशतिः। षड्विंशतिरधिका येषु पञ्चयोजनशतेषु तानि षड्विंशानि, योजनानां शतानि योजनशतानि, पन्च च तानि योजनशतानि ५ पञ्चयोजनशतानि, षड्विंशानि च तानि पञ्चयोजनशतानि षड्विंशपञ्चयोजनशतानि । "संख्यया अजहोरन्त्यस्वरादिलोपश्च।" [
] इत्यनेन अत्प्रत्ययः "तेविंशतेरपि" [का० सू० २।६।४३ ] इति अपिशब्दस्य बहुलार्थत्वात् तिं लुप्त्वा पश्चादन्त्यस्वरादिलोपे कृते सति षड्विंश इति निष्पद्यते । षड्विंशपञ्चयोजनशतानि विस्तारो यस्य भरतस्य स षड्विंशपञ्चयोजनशतविस्तारः। न केवलं षड्विंशत्यधिकपश्चयो- १० जनशतविस्तारो भरतवर्षो वर्तते, किन्तु एकोनविंशतिभागाः। एकोनविंशतिभागाः योजनस्य क्रियन्ते, तन्मध्ये षट् च भागाः गृह्यन्ते । तावत्प्रमाणविस्तारं भरतक्षेत्रं वर्तते इत्यर्थः। __यदि षड्विंशत्यधिकपञ्चयोजनशतविस्तारः षट्कलाविस्तारस्य(च) भरतो वर्तते, तर्हि 'हिमवदादयः पर्वताः हैमवतादयो वर्षाश्च कियद्विस्तारा वर्तन्ते' इति प्रश्नसद्भावे सूत्रमिदमाहुः--
तद्विगुणद्विगुणविस्ताराः वर्षधरवर्षा विदेहान्ता ॥ २५ ॥
तस्माद् भरतविस्ताराद् द्विगुणद्विगुणविस्ताराः तद्विगुणद्विगुणविस्ताराः । के ते ? वर्षधरवर्षाः । वर्षधराः हिमवदादयः कुलपर्वताः वर्षाः हैमवतादीनि क्षेत्राणि, वर्षधराश्च वर्षाश्च वर्षधरवर्षाः। कथम्भूताः वर्षधरवर्षाः ? विदेहान्ताः विदेहोऽन्ते येषां ते विदेहान्ताः विदेहपर्यन्तं द्विगुणा द्विगुणा गण्यन्ते, न तु परतः। विदेहात् परतः अर्धा विस्तारा इत्यर्थः। २० तेनायमर्थः-भरतविस्ताराद् द्विगुणविस्तारो हिमवान् हिमवद्विस्ताराद् द्विगुणविस्तारो हैमवतवर्षः । हैमवतवर्षविस्ताराद् द्विगुणविस्तारो महाहिमवान् वर्षधरः। महाहिमवत्पर्वतविस्ताराद् द्विगुणविस्तारो हरिवर्षः । हरिवर्षविस्ताराद् द्विगुणविस्तारो निषधपर्वतः । निषधपर्वताद् द्विगुणविस्तारो विदेहः । विदेहविस्तारादर्द्धविस्तारो नीलपर्वतः । नीलपर्वतादर्द्धविस्तारो रम्यकवर्षः । रम्यकवर्षविस्तारादर्द्धविस्तारो रुक्मिपर्वतः । रुक्मिपर्वतविस्तारादर्द्ध- २५ विस्तारो हैरण्यवतवर्षः। हैरण्यवतवर्षविस्तारादर्द्धविस्तारः शिखरिपर्वतः। शिखरिपर्वतविस्तारादर्द्धविस्तार ऐरावतवर्षः । भरतक्षेत्रादारभ्य ऐरावतक्षेत्रपर्यन्तम् एकयोजनलक्षं जम्बूद्वीपप्रमाणं ज्ञातव्यमित्यर्थः।
उत्तरा दक्षिणतुल्याः ॥ २६ ॥ उत्तरा ऐरावतादयो वर्षवर्षधरा नीलपर्वतान्ता दक्षिणतुल्या दक्षिणेर्भरतादिभिर्वर्ष- ३०
१ षड्विंशतिप- भा०, द०, ज०, ब०, प० । २ -विस्तारो भरतक्षेत्रस्य व- आ०, ६०, ज० | ३ भरतात् श्रा०, ब०, ज० ।
१८
For Private And Personal Use Only