SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्त्वार्थवृत्ती [३२३ अथेदानी गङ्गादिनदीनां परिवारनदीपरिज्ञानार्थं सूत्रमिदमाहुःचतुर्दशनदीसहस्रपरिवृता गङ्गासिन्ध्वादयो नद्यः ।। २३ ॥ नदीनां सहस्राणि नदीसहस्राणि चतुर्दश च तानि नदीसहस्राणि तैः परिवृता वेष्टिताः चतुर्दशनदीसहस्रपरिवृताः। गङ्गा च सिन्धुश्च गङ्गासिन्धू गङ्गासिन्धू आदिर्यासां रोहिद्रोहि५ तास्यादीनां ताः गङ्गासिन्ध्वादयः । नदन्ति शब्दं कुर्वन्ति इति नद्यः । ननु एतस्मात्सूत्रात् पूर्व चतुर्थ सूत्रं यदुक्तमस्ति तस्मिन्सुत्रे 'सरितस्तन्मध्यगाः' इत्यनेनैव वाक्येन सरिच्छन्देन नद्यः प्रकृता वर्तन्ते अधिकृताः सन्ति, तेनैव सरिच्छब्देन नद्यो लब्धाः पुनः 'नद्यः' इति 'ग्रहणं किमर्थम् ? 'चतुर्दशनदीसहस्रपरिवृता गङ्गासिन्ध्वादयः' इतीदृशं सूत्रं क्रियतां किं पुनर्नदी शब्दग्रहणेन ? सत्यम् ; नदीग्रहणं 'द्विगुणद्विगुणाः' इति सम्बन्धार्थम्। तर्हि गङ्गासिन्ध्वादि१० ग्रहणं किमर्थम् ? पूर्वोक्ता एव गङ्गासिन्ध्वादयो ज्ञास्यन्ते, तेन गङ्गासिन्ध्वादयः इति पदं व्यर्थम् , 'चतुर्दशनदीसहस्रपरिवृताः नद्यः' इत्येव सूत्रं क्रियताम् ; सत्यम् ; “अनन्तरस्य विधिः प्रतिषेधो वा" [पात० २२।४७] इति व्याकरणपरिभाषासूत्र बलेन अपरगानामेव नदीनां ग्रहणं भवेत् , न तु पूर्वगानाम् । तर्हि 'चतुर्दशनदीसहस्रपरिश्ता गङ्गादयो नद्यः' इत्येवं सूत्रं क्रियतां किं सिन्धुशब्दग्रहणेन ? सत्यम् ; एवं सति पूर्वगानामेव १५ नदीनां ग्रहणं भवेत्। अतः कारणादुमयीनां नदीनां ग्रहणार्थ गङ्गासिन्ध्वादिग्रहणं साधु । अस्य सूत्रस्यायमर्थः-भरतक्षेत्रमध्ये ये गङ्गासिन्धू द्वे नद्यौ वर्तेते ते प्रत्येकं द्वे अमि चतुर्दशनदीसहस्रपरिवृते स्तः। हैमवतनामजघन्यभोगभूमिक्षेत्रमध्ये द्वे रोहिद्रोहितास्याभिधे नद्यौ वर्तेते ते प्रत्येकं अष्टाविंशतिनदीसहस्रपरिवृते भवतः। ये हरिक्षेत्रमध्यमभोगभूमिमध्ये हरितहरिकान्ताख्ये वर्तेते ते द्वे अपि प्रत्येकं षट्पञ्चाशन्नदीसहस्रपरिवृते स्याताम् । ये २० विदेहमध्ये सीतासीतोदाह्वये द्वे नौ वर्तेते ते प्रत्येकं द्वे अपि द्वादशसहस्राधिकेन नदीलक्षण परिवृते चकास्तः । ये रम्यकनाममध्यमभोगभूमिक्षेत्रमध्ये नारीनरकान्ताभिधाने नद्यौ वर्तेते ते प्रत्येकं २ अपि षट्पञ्चाशनदीसहस्रसंयुक्त जाग्रतः। ये हैरण्यवतनामजघन्यभोगभूमिक्षेत्रमध्ये सुवर्णकूलारूप्यकूलासम्ज्ञके वर्तेते, ते प्रत्येकं द्वे अपि अष्टाविंशतिनदी सहस्रपरिवृते स्याताम् । ये ऐरावतक्षेत्रमध्ये रक्तारक्तोदानामिके द्वे नद्यौ वर्तेते ते प्रत्येकं द्वे २५ अपि चतुर्दशनदीसहस्रपरिवृते भवतः इति तात्पर्यम् । भोगभूमिवत्तिन्यो नद्यस्त्रसजीवरहिताः सन्ति । जम्बूद्वीपसम्बन्धिन्यो मूलनद्योऽष्टसप्ततिर्भवन्ति । तासां परिवारनदीनां द्वादशसहस्राधिकानि पञ्चदशलक्षाणि ज्ञातव्यानि । जम्बुद्वीपविभङ्गनद्यो द्वादश वर्तन्ते । तासां परिवारनद्यः परमागमाद् बोद्धव्याः । एवं पञ्चमेरुसम्बन्धिनीनां मूलनदोनां नवत्यधिकत्रिशतप्रमाणानां परिवारनदोनां षष्टिसहस्राधिकानि पञ्चसप्ततिलक्षाणि ज्ञातव्यानि । षष्टि३० विभङ्गनद्यश्च ज्ञातव्याः। १ -तस्मात्पू- आ०, द०, ब०, ज०। २ नदीग्रहणं आ०, २०, ब०, ज.। ३ द्विगुणा इति भा०, द॰, ब०, ज०। ४ - सू- आ० द. ३० ज० । ५ ते द्वे अपि प्रत्येकं च-द० । ६ -मिम- ५०, द०। ७ -स्राण्यधि- आ०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy