________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३।२२ ]
तृतीयोऽध्यायः
१३५
नदी पूर्वसमुद्रं गता । एते द्वे नारीनरकान्ते नद्यौ रम्यकक्षेत्रे वर्त्तेते । रुक्मिपर्वतोपरि स्थितो योऽसौ महापुण्डरीकहदस्तस्योत्तरतोरणद्वारेण निर्गत्य जघन्यभोगभूमौ पतित्वा रूप्यकूलानाम निम्नगा पश्चिम समुद्र ढोकते स्म । शिखरि कुलपर्वतोपरि स्थितो योऽसौ पुण्डरीकनामा हदस्तस्य दक्षिणतोरणद्वारेण निर्गत्य जघन्यभोगभूमौ पतित्वा सुवर्णकूलानाम्नी कूलङ्कषा पूर्वसमुद्रं प्राप्ता । एते द्वे सुवर्णकूलारूप्यकूले नद्यौ हैरण्यवतक्षेत्रमध्ये वर्त्तेते । शिखरि कुलपर्वतोपरि ५ स्थितो योऽसौ पुण्डरीक दस्तस्य पश्चिमद्वारेण निर्गत्य म्लेच्छखण्डमध्ये पतित्वा विजयाद्ध भित्वा रक्तदानाद्वीपवती पश्चिमसमुद्रं प्राप्नोति स्म । शिखरिकुलपर्वतोपरि स्थितो योऽसौ पुण्डरीकः तस्य पूर्व द्वारेण निर्गत्य म्लेच्छखण्डमध्ये पतित्वा विजयाद्ध' भित्वा रक्तानाम्नी निम्नगा पूर्वसमुद्रं जिहीतेस्म । एते द्वे रक्तारतोदानाम नद्यौ ऐरावतक्षेत्रमध्ये वत्तते ।
Acharya Shri Kailassagarsuri Gyanmandir
I
अथ सीतोदा नदी यत्र देवकुरुमध्ये वहति तत्र पूर्वापरायता पञ्च हृदा वर्त्तन्ते । १० एकैकस्य हृदस्य समीपे पूर्वापरतटेषु पच पच क्षुद्रपर्वताः सन्ति । एवं पञ्चहदसम्बन्धिनः पञ्चाशतुद्रपर्वता सन्ति ते सिद्धकूटनामानः प्रत्येकं पञ्चाशद्योजनायताः पञ्चविंशतियोजनविस्ताराः सप्तत्रिंशद्योजनोन्नताः मणितोरणद्वार वेदिका सहिताः घण्टाभृङ्गारकैलशलवङ्गकुसुममालादिसंयुक्त चतुर्दिकूचतुस्तोरणद्वारसहिताः । तेषां पर्वतानामुपरितनप्रदेशे अष्टप्रातिहार्यसंयुक्ताः रत्नसुवर्णरूप्यनिर्माणाः पल्यङ्कासनस्थिताः पूर्वाभिमुखाः एकैका जिनप्रतिमा १५ " वर्तन्ते । ततोऽग्रे गत्वा गव्यूतिद्वयं मेरुपर्वतमस्पृष्ट्वा सीतोदानदी अपरविदेहं चलिता यावदपरविदेहं न प्राप्नोति तावदपर विदेहवेदिकायाः पूर्वदिशि सीतोदानदीसम्बन्धिनः दक्षिणोत्तरायता अपरे पञ्च हृदाः वर्तन्ते । तेषां दक्षिणोत्तरतटेषु पञ्च पञ्च पूर्ववत् सिद्धकूटानि सन्ति । एवं तत्रापि पञ्चाशत्सिद्धकूटानि ज्ञातव्यानि । एवं नीलपर्वताद्दक्षिणस्यां दिशि पतिता या सीता नदी तस्या अपि सम्बन्धिन उत्तरकुरुमध्ये पञ्च हृदाः पूर्वापरायताः २० सन्ति । तेषामपि पूर्वापरतटेषु पञ्चाशत् सिद्धकूटानि पूर्ववत् ज्ञातव्यानि । ततः गव्यूतिद्वयं मेरुपर्वतं परिहृत्य सीतानदी पूर्वविदेहं प्रति पूर्वविदेहवेदिकायाः पश्चिमदिशि सीतानदीसम्ब न्धिनः दक्षिणोत्तरायताः पश्च हृदाः सन्ति । तेषामपि दक्षिणोत्त· तटेषु पश्चाशत्सिद्धकूटानि ज्ञातव्यानि । एवमेकत्र सिद्धकूटानां द्विशती जम्बूद्वीपमेरु सम्बन्धिनी भवति । तथा पचानामपि मेरूणां सम्बन्धिनां सिद्धकूटानामेकसहस्रं भवति ।
I
शेषास्त्वपरगाः ॥ २२ ॥
अस्य सूत्रस्य व्याख्या पूर्वमेव निरूपिता ।
१ - नामनदी आ०, ब०, ६०, ज० । २ पद्म- ता० । ३ - कादे नाम- ता०, व० । ४ - कलशध्वजकुसुममालिकासंयुक्तचतुर्दिक् चतुस्तोरणद्वारेण स - भा०, ब०, द० ज० । ५ वर्तते आ० द० ज०, ता० ब० । ६ - विदेहे च- आ० द० ज०, ब० । ७ पतित्वा या
,
आ०, ६०, ब० ज०
For Private And Personal Use Only
२५