________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४ तत्त्वार्थवृत्ती
[ ३२१ महानद्यः, न तु वापिका इत्यर्थः। किन्नामानः सरितः ? गङ्गेत्यादि । गङ्गा च सिन्धुश्च रोहच्च रोहितास्या च हरिच्च हरिकान्ता च सीता च सीतोदा च नारी च नरकान्ता च सुवर्णकूला च रूप्यकूला च रक्ता च रक्तोदा च तास्तथोक्ताः। इतरेतरद्वन्द्वः।।
अथ पृथक् पृथक् क्षेत्रे द्वे द्वे नद्यौ भवत इति सूचनार्थमेकस्मिन् क्षेत्रे सर्वा नद्यो न ५ भवन्तीति च प्रकटनाथ कां दिशं का नदी गच्छतीति च निरूपणार्थं सूत्रमिदमाहुः
द्वयोर्द्वयोः पूर्वाः पूर्वगाः ॥ २१ ॥ द्वयोर्द्वयोर्गङ्गासिन्ध्वोर्मध्ये गङ्गा पूर्वगा पूर्वसमुद्रगामिनी। रोहिद्राहितास्ययोर्मध्ये रोहित् पूर्वगा। हरिद्धरिकान्तयोर्मध्ये हरित् पूर्वगा। सीतासीतोदयोर्मध्ये सीता पूर्वगा।
नारीनरकान्तयोर्मध्ये नारी पूर्वगा। सुवर्ण कूलारूप्यकूलयोर्मध्ये सुवर्णकूला पूर्वगा। रक्ता१० रक्तोदयोर्मध्ये रक्ता पूर्वगा पूर्वसमुद्रगामिनी। एताः सप्त नद्यः पूर्वसमुद्रं गच्छन्ति ।
"शेषास्त्वपरगाः" इति वचनात् सिन्धुः पश्चिमसमुद्रगामिनी । रोहितास्या पश्चिमाब्धि गच्छति । हरिकान्ता परोदधिं याति । सीतोदा प्रत्यक्समुद्रं व्रजति। नरकान्ताऽपरार्णवं जिहीते। रूप्यकूला पश्चिनसरस्वन्तं ध्वजति । रक्तोदा पश्चिमशशध्वजं समेति ।
अथ एता यस्मानिर्गता यत्र क्षेत्रे वहन्ति तदुच्यते
हिमवत्पर्वते पग्रहदो यो वर्तते तस्मात् पूर्वतोरणद्वारेण निर्गत्य गङ्गा म्लेच्छखण्डं पतित्वा विजयाद्ध भित्वा पूर्वसमुद्रं प्रविष्टा । हिमवत्पर्वते यः प्रोक्तः पद्मह्रदस्तस्य पश्चिमतोरणद्वारेण निर्गत्य म्लेच्छखण्डे पतित्वा विजयाद्ध भित्वा 'सिन्धुः पश्चिमसमुद्रं प्रविष्टा । एते ट्रेनद्यौ भरतक्षेत्रे वहतः। हिमवत्पर्वते यः पद्मह्रदस्तस्योत्तरतोरणद्वारेण निर्गत्य जघन्य
भोगभमौ पतित्या रोहितास्या पश्चिमसमुद्रं प्रविष्टा । महाहिमवत्पर्वतोपरिस्थितो योऽसौ २० महापद्मदस्तस्य दक्षिणतोरणद्वारेण निर्गत्य जघन्यभोगभूमौ पतित्वा रोहित् पूर्वसमुद्र
प्रविष्टा। एते द्वे रोहिद्रोहितास्ये नद्यौ हैमवतक्षेत्रे वत्तेते। अथ महाहिमवत्पर्वतोपरि स्थितो योऽसौ महापनदस्तस्योत्तरतोरणद्वारेण निर्गत्य मध्यमभोगभूमौ पतित्वा हरिकान्ता पश्चिमसमुद्रं गच्छतिस्म । निषधकुलपर्वतोपरि स्थितो योऽसौ तिगिच्छदस्तस्य दक्षिणतोरणद्वारेण निर्गत्य मध्यमभोगभूमौ पतित्वा हरित् पूर्वसमुद्रं गता । एते द्वे हरिद्धरिकान्ते नद्यौ हरिक्षेत्र२५ मध्ये वर्तेते । निषधपर्वतोपरि स्थितो योऽसौ तिगिब्न्छदस्तस्योत्तरतोरणद्वारेण निगेत्य
उत्तमभोगभूमौ पतित्वा सीतोदा नदी अपरविदेहमध्ये गत्वा पश्चिमसमुद्रं गता । अथ नीलकुलपर्वतोपरि स्थितो योऽसौ केसरिहृदस्तस्य दक्षिणतोरणद्वारेण निर्गत्य उत्तमभोगभूमौ पतित्वा पूर्व विदेहमध्ये गत्वा सीतानदी पूर्वसमुद्रं प्रविष्टा । एते द्वे सीतासीतोदे नद्यौ
विदेहक्षेत्रमध्य वर्त्तते । नीलकुलपर्वतोपरि स्थितो योऽसौ केसरिह्रदस्तस्योत्तरतोरणद्वारेण ३. निर्गत्य मध्यमभागभूमौ पति वा नरकान्ता पश्चिमसमुद्र ययौ । रुक्मिकुलपर्वतोपरि स्थितो
यऽसौ महापुण्डरीकहदस्तस्य दक्षिणतोरणद्वारेण निर्गत्य मध्यमभोगभूमौ पतित्वा नारीनामा
१ सिन्धुनदी भा०, १०, ज० । २ -द्रं प्रविष्टा आ०, २०, ज० ।
For Private And Personal Use Only