________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३१९-२० ] तृतीयोऽध्यायः
१३३ ष्करं वर्तते, तथा केसरीनामा हृदः तत्पुष्करञ्च तत्सदृशं ज्ञातव्यम् "उत्तरा दक्षिणतुल्या" [त० सू० ३।२६] इति वचनात् । तेन पद्मतत्पुष्करसदृशे पुण्डरीकतत्पुष्करे । महापद्मतत्पुष्करसमाने महापुण्डरीकतत्पुष्करे । तिगिब्च्छतत्पुष्करसमे केसरितत्पुष्करे इत्यर्थः । तथा महापद्मपुष्करं जलाच्चतुःक्रोशोन्नतं वर्तते । तिगिच्छपुष्करं जलादष्टक्रोशोन्नतं वर्त्तते । केसरिपुष्करं जलादष्टक्रोशोन्नतम् । महापुण्डरीकपुष्करं जलाच्चतुःक्रोशोन्नतम् । ५ पुण्डरीकपुष्करं जलाद् द्विक्रोशोन्नतमिति । ___ अथेदानीं तेषु पुष्करेषु या देव्यो वर्तन्ते तासां सज्ञास्तज्जीवितप्रमाणञ्च तत्परिवारसूचनार्थञ्च सूत्रमिदं सूचयन्तितन्निवासिन्यो देव्यः श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपम
स्थितयः ससामानिकपरिषत्काः ॥१९॥ तेषु पुष्करेषु निवसन्तीत्येवंशीलास्तन्निवासिन्यो देव्यो भवन्ति । किन्नामानो देव्यः ? श्रीह्रीधृतिकीर्तिबुद्धिलक्ष्म्यः । श्रीश्च ह्रीश्च धृतिश्च कीर्तिश्च बुद्धिश्च लक्ष्मीश्च श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः । कथम्भूता देव्यः ? पल्योपमस्थितयः। उपल्येनोपमा यस्याः स्थितेः सा पल्योपमा । पल्योपमा एकपल्योपमा स्थितिर्जीवितकालो यासां ताः पल्योपमस्थितयः । पुनरपि कथम्भूता देव्यः ? ससामानिकपरिषत्काः। समाने स्थाने भवाः सामानिकाः पितृमह- १५ त्तरोपाध्यायसदृशाः। परिषदश्च वयस्यादितुल्याः। सामानिकाश्च परिषदश्च सामानिकपरिषदः। सामानिकपरिषद्भिः सह वर्तन्ते या देव्यस्ताः ससामानिकपरिषत्काः । षण्णां पुष्कराणां कर्णिकाणां मध्यप्रदेशेषु किल प्रासादा वर्तन्ते । ते तु प्रासादाः पूर्णनिर्मलशारदेन्दुप्रभातिरस्कारिण एकक्रोशायामाः क्रोशार्द्धविस्ताराः किञ्चिदूनकक्रोशसमुच्छिताः। ईदृशेषु प्रासादेषु श्रीप्रभृतयो देव्यो वसन्ति। पद्मदपुष्करप्रासादे श्रीर्वसति । महापद्मदपुष्करप्रासादे २० हीर्वसति । तिगिच्छदपुष्करप्रासादे धृतिर्वसति। केसरिहदपुष्करप्रासादे कीर्तिर्वसति । महापुण्डरीकहदप्रासादे बुद्धिर्व सति । पुण्डरोकहदप्रासादे लक्ष्मीर्वसति । तेषां पुष्कराणां परिवारपुष्करप्रासादेषु सामानिकाः परिषदश्च वसन्ति । तत्र श्रीह्रीधृतयस्तिस्रो देव्यो निजनिजपरिवारसहिताः सौधर्मेन्द्रस्य सम्बद्धाः सौधर्मेन्द्रसेवापरा वर्तन्ते । कीर्तिबुद्धिलदम्यस्तिस्रः सपरिवारा ईशानेन्द्रस्य सम्बद्धा वर्तन्ते । एवं पञ्चस्वपि मेरघु ये षट्पट्कुलपर्वता वर्तन्ते २५ तेषु तेषु षट्पड्देव्यो ज्ञातव्याः।।
___ अथेदानी याभिनंदीभिः क्षेत्राणि विभक्तानि ता उच्यन्तेगङ्गासिन्धुरोहिद्रोहितास्थाहरिद्धरिकान्तासीतासीनोदानारीनरका
न्तासुवर्णरूप्यकलारक्तारक्तोदाः सरितस्तन्मध्यगाः ॥२०॥
तेषां सप्तानां क्षेत्राणां मध्ये गच्छन्ति वहन्तीति तन्मध्यगाः, न तु सर्वा अपि सामीप्य- ३० सीमानः। एककस्मिन् क्षेत्रे द्वे द्वे नद्यौ वहत इत्यर्थः। तन्मध्यगाः काः ? सरितश्चतुर्दश
१ -शञ्च ज्ञा- भा०, २०, ब०, ज० । २ -सू- आ०, ब० । ३ पल्योपमा स्थि-- ता० ।
For Private And Personal Use Only