________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२ तत्त्वार्थवृत्ती
[३।१४-१८ तेषां कुलपर्वतानामुपरितनमध्यभागे ये ह्रदा वर्तन्ते तान्प्रतिपादयन्ति भगवन्तःपद्ममहापद्मतिगिञ्छकेसरिमहापुण्डरीकपुण्डरीका हृदास्तेषामुपरि॥१४॥
पनश्च महापद्मश्च तिगिन्छश्च केसरी च महापुण्डरीकश्च पुण्डरीकश्च पद्ममहापद्मतिगिच्छकेसरिमहापुण्डरीकपुण्डरीकाः । तेषां हिमवदादिकुलपर्वतानामुपरि मस्तके हृदा ५ बहुजलपरिपूर्णसरोवराणि वरीवृत्यन्ते।
अथेदानी प्रथमस्य 'सदस्य संस्थानं निरूपयन्त्याचार्याः
प्रथमो योजनसहस्रायामस्तदर्धविष्कम्भो हृदः ॥ १५ ॥
प्रथमो हिमवत्पर्वतोपरिस्थितः पद्मो नाम यो हृदः सरोवरं वर्त्तते । स कथम्भूतः ? योजनसहस्रायामः, एकसहस्रयोजनदीर्घः। पुनरपि कथम्भूतः १ तदर्धविष्कम्भः, तस्य १० एकयोजनसहस्रस्य अध पञ्चशतयोजनानि विष्कम्भो विस्तारो यस्य स तदर्धविष्कम्भः । वत्रमयतलो नानारत्नकनकविचित्रतटः पूर्वापरेण दीर्घः दक्षिणोत्तरविस्तार इत्यर्थः । अथ तस्यैव हिमवत्पर्वतोपरि स्थितस्यैव पद्मस्य हृदस्य अवगाहसूचनार्थ सूत्रमाहुः
दशयोजनावगाहः ।। १६ ॥ दशयोजनान्यवगाहोऽधःप्रवेशो निम्नता गाम्भीर्यं यस्य स दशयोजनावगाहः । अथ पद्मदस्य मध्ये यद्वमयं कमलं वर्तते तत्प्रमाणपरिज्ञानार्थं सूत्रमिदमुचुः
तन्मध्ये योजनं पुष्करम् ॥१७॥ तस्य पद्महदस्य मध्ये योजनमेकयोजनप्रमाणं पद्म पुष्करं वर्तते । तस्य एकक्रोशायतानि दलानि पत्राणि वर्तन्ते । क्रोशद्वयविस्तारा कर्णिका मध्ये अस्ति । कर्णिकामध्ये क्रोशैकप्रमाणः श्रीदेव्याः प्रासादो वर्त्तते वर्तुलाकारः। तत्कमलं क्रोशद्वयं जलं परित्यज्य २० उपरि वर्त्तते । एवं पत्रकणिकासमुदायेन योजनप्रमाणं वेदितव्यम् ।।
___ अथेदानीमन्येषां हृदानां पुष्कराणाञ्च आयामविस्तारावगाहादिनिरूपणार्थं सूत्रमिदं ब्रुवन्ति
तद्धिगुणद्विगुणा हृदाः पुष्कराणि च ॥ १८ ॥
ताभ्यां पद्मदपुष्कराभ्यां द्विगुणद्विगुणास्तद्विगुणद्विगुणा विस्तारायामावगाहा ह्रदाः २५ सरोवराणि भवन्ति । पुष्कराणि च पद्मानि च द्विगुणद्विगुणविस्तारायामानि ज्ञातव्यानि ।
अत्र चशब्दः उक्तसमुच्चयार्थः। तेनायमर्थः-यथा पद्मान्महापनो द्विगुणो विंशतियोजनावगाहः द्विसहस्रयोजनायामः सहस्रयोजनविस्तारः, द्वियोजनं तत्र पुष्करं वर्तते, तथा महापुण्डरीको ह्रदस्तत्पुष्करञ्च तादृशम्च ज्ञातव्यम् । यथा च महापद्माद् द्विगुणस्तिगिच्छो ह्रदश्चत्वारिंशद्योजनावगाहः चतुःसहस्रयोजनायामो द्विसहस्रयोजनविस्तारश्चतुर्योजनं तत्पु
१-स्य हस्वस्य ह- आ० । २ तत्र च- आ०, ब०, ९०, ज० ।
For Private And Personal Use Only