________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३।१२-१३ ]
तृतीयोऽध्यायः
१३१
च्छील्ये" [ कात० ३।७६ ] ताच्छील्यं फलनिरपेक्षम् । अनादिकाले निजनिजस्थाने स्थिताः हेतुनिरपेक्षनामानः पूर्व कोट्यपरकोटीभ्यां 'लवणोदसमुद्र स्पर्शित्वात् पूर्वापरायता इत्युच्यन्ते । के ईदृग्विधाः ? वर्षधरपर्वताः । वर्षाणां भरतादीनां सप्तानां क्षेत्राणां विभागप्रत्ययत्वा वर्षधराः । वर्षधरा ते पर्वताश्च वर्षधरपर्वताः । किन्नामानस्ते वर्षधरपर्वताः ? हिमवन्महाहिमवन्निषधनील रुक्मिशिखरिणः । हिमवांश्च महाहिमवांश्च ५ निषेधश्व नीलश्च रुक्मी च शिखरी च ते हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिणः । इतरेतरद्वन्द्वः । तत्र भरतस्य हैमवतस्य च क्षेत्रस्य सीम्नि क्षुद्रहिमवान् स्थितो वर्तते । सक्षुद्रहिमवान् एकशतयोजनोन्नतः पचविंशतियोजनभूमिमध्यस्थितः । हैमवतक्षेत्रस्य हरिक्षेत्र
सीनि महाहिमवानवस्थितो वर्तते । स द्विशतयोजनोन्नतः पचाशद्योजनभूमिमध्यगतः । हरिक्षेत्रस्य विदेहक्षेत्रस्य च सीम्नि निषधनामा गिरिरवस्थितो वर्त्तते । स चतुः- १० शतयोजनोन्नतः एकशतयोजनभूमिमध्यगतः । विदेहक्षेत्रस्य रम्यकक्षेत्रस्य च सीम्नि नीलपर्वतोऽवस्थितो वर्त्तते । स चतुः शतयोजनोन्नत' एकशतयोजनभूमिमध्यगतः । रम्यकक्षेत्रहैरण्यवतक्षेत्रयोर्मध्ये रुक्मी नाम भूधरोऽवस्थितो वर्तते । स द्विशतयोजनोन्नतः पश्वाशद्योजनभूमिमध्यगतः । हेरण्यवतक्षेत्रैरावतक्षेत्रयोः सीम्नि शिखरी नाम शिलोच्चयो जागर्ति । अथेदानीं षण्णां कुलशिखरिणां वर्णविशेषपरिज्ञानार्थं सूत्राम माहुः -
१५
हेमार्जुनतपनीय बैंड रजतहेममयाः ॥ १२ ॥
हेम च अर्जुनं च तपनीयं च वैडूयं च रजतं च हेम च हेमार्जुनतपनीय सूर्यरजतमानि तैर्निवृत्ता हेमार्जुनतपनीयवैडूर्यरजतहेममयाः । “प्रकृतेर्विकारेऽवयवे वाSeक्षाछादनयोः" [का० सू० दौ० बृ० २|६|४०] च मयडिति साधु । क्षुद्रहिमवान् हेममयः, चीनवर्णः, पीतवर्णं इत्यर्थः । महाहिमवान् अ 'नमयः रूप्यमयः, शुक्लवर्ण इत्यर्थः । २० निषधस्तपनीयमयस्तरुणादित्यवर्णः, तप्तकनकवर्ण इत्यर्थः । नीलो वैडूर्य्यमयः, मयूरप्रीवाभः । रुक्मी रजतमयः, शुक्लवर्णं इत्यर्थः । शिखरी हेममयः, भर्मनिर्माणः, चीनपट्टवर्ण इत्यर्थः । अथेदानीं भूयोऽपि तद्विशेषपरिज्ञानार्थं सूत्रमिदमूचुःमणिविचित्र
उपरि मूले च तुल्यविस्ताराः ॥ १३ ॥
मणिभिः पञ्चविधरत्नैर्महातेजस्कैर्विचित्राणि कर्बुराणि देवविद्याधरचारणर्षीणामपि २५ चित्तचमत्कारकारीणि पावनि तटानि येषां कुलपर्वतानां ते मणिविचित्र पार्थ्याः । पुनरपि कथम्भूतास्ते कुलपर्वताः ? उपरि मस्तके मूले "बुध्नभागे चकारात् मध्ये च, तुल्यविस्ताराः तुल्यो विस्तारो येषां ते तुल्यविस्ताराः, अनिष्टसंस्थानरहिताः समानविस्तारा इत्यर्थः ।
१ लवणोदस्प - आ०, ब०, ६०, ज० । २ -तः शत- वा० । ३ -मिदमूचुः व० । ४ प्रकृतविकारोऽवयवो वा आ०, ब०, ६०, ज० । "वाऽभक्ष्याच्छादने मयटू ।" - शाकटा० २४/१६२ । ५ बुध्ने भागे आ०, ब०, ६०, ज० ।
For Private And Personal Use Only