________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३० तत्त्वार्थवृत्तौ
[३।११ तेषां क्षेत्राणां मध्येषु' मूलनगरीणां नामानि अश्वपुरी, सिंहपुरी, महापुरी, विजयापुरी, अरजा, विरजा, अशोका, वीतशोका चेति । सीतोदोत्तरतटे यान्यष्टौ क्षेत्राणि वर्तन्ते तेषां नामानि पश्चिमतः पूर्व यावत्
"वत्रा सुवप्रा महावत्रा चतुर्थी वप्रकावती।
गन्धा चैव सुगन्धा च गन्धिला गन्धमादिनी ॥१॥" [हरि० ५।२५१ ] मूलपुरीणां नामानि"विजया वैजयन्ती च जयन्ती चापराजिता ।
चक्रा खड्गा अयोध्या च अवघ्या चेति ताः क्रमात्।।" [हरि० ५।२६३] पत्र भूतारण्यं वनं क्षेत्रपश्चिमसमुद्रवेदिकयोर्मध्ये ज्ञातव्यम् ।
एवं महाविदेहवर्णनां कृत्वा पञ्चमो रम्यकवर्ष उच्यते । तद् रम्यकक्षेत्रं नीलपर्वतरुक्मिपर्वतयोर्मध्ये पूर्वाऽपरसमुद्रयोश्च मध्ये ज्ञातव्यम् । तत्क्षेत्रं मध्यमा भोगभूमिः हरिक्षेत्रकथितस्वरूपा ज्ञातव्या। तस्य क्षेत्रस्य मध्ये गन्धवान नाम वृत्तवेदान्यः पर्वतो भवति । स विकृतवेदाव्यवद बोद्धव्यः। अथ रुक्मिपर्वतशिखरिपर्वतयोरन्तराले पूर्वापरसमुद्रयोश्च मध्ये हैरण्यवतो
नाम षष्ठो वर्षो वर्त्तते । तद्धरण्यवत' षष्ठं क्षेत्रं जघन्या भोगभूमिहँमवतक्षेत्रवर्णितस्वरूपा १५ ज्ञातव्या । हैरण्यवतक्षेत्रमध्ये माल्यवान नाम वृत्तवेदान्यः पर्वतो वर्तते । स हैमवतक्षेत्रमध्य
स्थितशब्दवद्वेदाढ्यसदृशः। अथ शिखरिपर्वतपूर्वापरोत्तराणां त्रयाणां समुद्राणां च मध्ये ऐरावतो नाम वर्षश्चकास्ति । तस्मिन्नरावतक्षेत्रे भरतक्षेत्रविजया तुल्यो विजया पर्वतोऽस्ति । तक्षिणदिशि वृषभगिरिरस्ति । तस्य विजयार्द्धस्योत्तरदिशि अयोध्या नाम भूलनगर्यस्ति । एवं
पन्चमेरूणां सम्बन्धीनि पञ्चभरतानि पञ्चैरावतानि पञ्चमहाविदेहक्षेत्राणि च पञ्चो२० त्तरकुरवः पञ्चदेवकुरवश्च त्रिंशद्भोगभूमयः जघन्यमध्यमोत्तमोत्तममध्यमजघन्यविभागैर्जातव्याः। विकलत्रयजीवाः कर्मभूमिध्वेव भवन्ति, तत्रापि समवसरणेषु न भवन्ति । पाताले स्वर्गे चान्यत्र मर्त्यलोके च द्वित्रिचतुरिन्द्रियाः प्राणिनो न वर्त्तन्ते ।
अथेदानी षटकुलपर्वतानां नामान्यवस्थितिश्चोच्यते-- तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनील
रुक्मिशिखरिणो वर्षधरपर्वताः॥ ११ ॥ तानि भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतसज्ञानि क्षेत्राणि विभजन्ति विभाग प्रापयन्ति विभागहेतुत्वं गच्छन्तीत्येवंशीलास्तद्विभाजिनः "नाम्न्यजातौ णिनिस्ता
१-ध्ये मू- आ०, ब०, ९०, ज०। २ -काशनी द०, ज.। ३ मध्यमभो- भा०, १०, २०, ज०। ४ -तं क्षे- भा०, २०, ५०, ज०। -तं षष्ठः क्षे- ता० । ५ -णि प-आ। ६ स्वर्गेणान्यत्र मर्त्यलो- भा०, २०, ५०, ज० । स्वों वान्यत्र मृत्युलो- २० ।
For Private And Personal Use Only