SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३।१०] तृतीयोऽध्यायः १२९ स पर्वतो वृत्तवेदाढ्यसदृशः म्लेच्छखण्डमध्ये स्थितः । तत्र पर्वते चक्रवर्ती स्वप्रसिद्धिं लिखति । एवमष्टसु क्षेत्रेषु मध्ये अष्टवृषभगिरयो भवन्ति । एवमष्ठावपि क्षेत्राणि षड्भिः षड्भिः खण्डैयुक्तानि भवन्ति । तत्र तत्र यो यश्चक्रवर्ती समुत्पद्यते तस्य तस्य एकैकमार्यखण्डं पञ्च पञ्च म्लेच्छखण्डानि भोग्यानि भवन्ति । अष्टस्वपि आर्यखण्डमध्येष्वेकक उपसमुद्रो भवति । स उपसमुद्रः सीतानदीसमीपेऽर्द्धचन्द्राकारो भवति । तस्य तस्य क्षेत्रस्य सम्बन्धिनश्चक्रवर्ति- ५ साध्याः सीतानद्यन्तर्वासिनो मागधवरतनुप्रभासनामानो व्यन्तरदेवा भवन्ति । अथेदानी सीताया दक्षिणस्यां दिशि यान्यष्टौ क्षेत्राणि वर्तन्ते तन्नामपूर्वकं तत्स्वरूपं निरूप्यते । तथा हि-पूर्व दिशं प्रारभ्य पूर्व वनवेदी पश्चाद् वक्षारपर्वतः । तृतीयस्थाने विभङ्गा नदी । चतुर्थस्थाने वक्षारपर्वतः । पञ्चमस्थाने विभङ्गा नदी । षष्ठस्थाने वक्षारपर्वतः । सप्तमस्थाने विभङ्गा नदी । अष्टमस्थाने वक्षारपर्वतः। नवमस्थाने 'वनवेदिका चेति नवभि- १० भित्तिभिर्दक्षिणोत्तराया (य) ताभिरष्ट क्षेत्राणि कृतानि । तेषां नामानि "वत्सा सुवत्सा महावत्सा चतुर्थी वत्सकावती। रम्या च रम्यका चैव रमणीया मङ्गलावती ॥१॥" [हरि० ५।२४७ ] तेषामष्टानां क्षेत्राणां मध्येषु अष्टौ मूलपत्तनानि। तेषां नामानि पूर्वतः प्रारभ्य ४ पश्चिमदिग्(शं) यावत्सुसीमा, कुण्डला, अपराजिता, प्रभङ्करी, अङ्कवती, पद्मावती, शुभा, १५ रत्नसञ्चया चेति । तेषामष्टानां क्षेत्राणां मध्येषु पूर्वापरायता अष्टौ विजयार्द्धपर्वता वर्तन्ते । तेषामष्टानां क्षेत्राणां मध्येषु द्वे द्वे गङ्गासिन्धुनामिके नद्यौ वर्तेते। ते च नद्यो निषधपर्वतान्निर्गत्य विजया न विभिद्य सीतां नदी प्रविष्टे। या अष्टौ नगर्यः कथितास्ता विजयाद्धेभ्य उत्तरासु दिक्षु सीताया दक्षिणासु दिक्षु गङ्गासिन्थ्योश्च मध्येषु वर्त्तन्ते । तथा नगरीभ्य उत्तरतः सीताया दक्षिणपार्श्वेषु अष्टौ उपसमुद्राः वर्तन्ते । निषधपर्वतादुत्तरासु दिनु विजयाद्धेभ्यो दक्षिणासु २० दिक्ष्वष्टौ वृषभगिरयः सन्ति । तत्र तत्र चक्रवर्तिनो "निजप्रसिद्धीलिखन्ति । गङ्गासिन्धुनामानः षोडशनद्यस्तिस्रो विभङ्गनद्यश्च, एकोनविंशतिनद्यो निषधादुत्तीर्य विजया न विभिद्य सीतायां प्रविष्टाः। एवं षभिः षभिः खण्डैर्मण्डितान्यष्टौ क्षेत्राणि ज्ञातव्यानि । अष्टानां क्षेत्राणां सम्बन्धिनः सीतानिवासिनो मागधवरतनुप्रभासाश्च ज्ञातव्याः । ___ एवं सीतोदा नदी अपरविदेहं विभिद्य पश्चिमसमुद्रं प्राप्ता । तया द्वौ विदेही कृतौ- २५ दक्षिण उत्तरश्च । तयोर्वर्णना पूर्व विदेहवद्वेदितव्या। अयन्तु विशेषः-सीतोदादक्षिणतदेषु यानि क्षेत्राणि वर्तन्ते तेषां नामानि पूर्वतः पश्चिमं यावत् "पमा सुपमा महापद्मा चतुर्थी पद्मकावती । शङ्खा च नलिना चैव कुमुदा सरितेति च ॥ १॥" [हरि० ५।२४९ ] १ -न्तर्वर्तिनः ज० । २ -बिववे- ता० । ३ तेष्वष्टा- ता० । ४ पश्चिमदिक् या-द० । ५ निजनिजप्र- आ०, ब०, ६०, ज० । ०.. For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy