________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८ तत्त्वार्थवृत्तौ
[ ३.१० तेनायं वर्षो विदेह इत्युच्यते । विदेहक्षेत्रेषु तीर्थङ्कराणां चतुर्विंशतिरिति नियमो न वर्तते । विदेहमुनियोगाद् वर्षोऽपि विदेहः, आधाराधेययोरेक्योपचारात् कृष्णकज्जलयोगात्कृष्णचक्षुर्वत्, श्वेतद्रव्ययोगात् श्वेतप्रासादवत् । देवकुरूत्तरकुरुपूर्व विदेहाऽपरविदेहानां चतुर्यु
कोणेषु चत्वारः पर्वता गजदन्तनामानः। तेषां दैयं त्रिंशत्सहरूयोजनानि द्वे योजनशते ५ नवोत्तरे च। तेषामुन्नतिश्चत्वारि योजनशतानि। तेषां विस्तारः पञ्चयोजनशतानि। तेषां शिखराणि प्रत्येकं चत्वारि ते गजदन्ता दिग्दन्तापरनामानो मेरोः समीपानिर्गता द्वौ निषधं प्रति गतौ द्वौ नीलं प्रति गतौ। दक्षिणदिग्वर्तिनोर्गजदन्तयोरन्तराले 'देवकुरवो नामोत्तमा भोगभूमिवर्तते । तन्मध्ये शाल्मलीवृक्षो वर्तते । तद्वर्णना स्वकीयस्वरूपसहिता परिवारवृक्षादिका
जम्बूवृक्षवद्वेदितव्या। उत्तरदिग्वर्तिनोर्गजदन्तयोरन्तगले उत्तरकुरवो नामोत्तमा भोगभूमि१० वर्तते । तत्रत्या आर्याः पल्यत्रयजीविनो गव्यूतित्रयोन्नता दिनत्रयान्तरितबदरीफलप्रमाणकल्प
वृक्षोत्पन्नदिव्यभोजनाः, बालभास्करसमानवर्णाः, तत्र त्रिंशत्गव्यूत्युन्नताः कल्पवृक्षाः सन्ति । अन्या वर्णना पूर्ववद्वेदितव्या। ।
• मेरोश्चतुर्दिनु श्रीभद्रशालनामधेयं वनमस्ति । तस्य वनस्य पूर्व दिश्यपरदिशि च पर्यन्तयोझै वेदिके वेदितव्ये । ते द्वे निषधनीलपर्वतयोर्लग्ने । पूर्वविदेहमध्ये सीतानदी १५ समागता। तया पूर्वविदेहो द्विभागः कृतः। तत्र एक उत्तरो भागो द्वितीयो दक्षिणो
भागश्च । उत्तरभागमध्ये अष्टक्षेत्राणि सञ्जातानि। कथम् ? पूर्व वेदी पश्चात् वक्षारनामा पर्वतः । वेदीपर्वतयोर्मध्ये एक क्षेत्रं वर्तते । वक्षारपर्वतविभङ्गनदीद्वयमध्ये द्वितीय क्षेत्रम् । विभङ्गनदीवक्षारपर्वतयोर्मध्ये तृतीय क्षेत्रम् । वक्षारपर्वतविभङ्गनदीद्वयमध्ये चतुर्थ क्षेत्रम् ।
विभङ्गनदीवक्षारपर्वतयोर्मध्ये पञ्चमं क्षेत्रम् । वक्षारपर्वतविभङ्गनदीद्वयान्तराले षष्ठं क्षेत्रम् । २० विभङ्गनदीवक्षारपर्वतयोर्मध्ये सप्तमं क्षेत्रम् । वक्षारपर्वतवनवेदिकामध्ये अष्टमं क्षेत्रम् । तदनन्तरं देवारण्यं वनं समुद्रवेदिकापर्यन्तम् । एवं चतुर्भिर्वक्षारपर्वतस्तिसृभिर्विभङ्गनदीभि
भ्यां वेदिकाभ्याञ्च नवभिः खण्डरष्टक्षेत्राणि सञ्जातानि । तेषामष्टानां क्षेत्राणां पश्चिमतः प्रारभ्य पूर्वपर्यन्तं "नामान्युच्यन्ते ।
"कच्छा सुकच्छा महाकच्छा चतुर्थी कच्छकावती। २५ आवर्ता लागलावर्ता पुष्कला पुष्कलावती ॥१॥" [हरि० ५।२४५]
तेषां क्षेत्राणां मध्येऽनुक्रमेणाष्टौ मूलपत्तनानि । तेषां नामानि-क्षेमा, क्षेमपुरी, अरिष्टा, अरिष्टपुरी, खड्गा, मञ्जूषा, ओषधी, पुण्डरीकिणी। एकैकस्य क्षेत्रस्य मध्ये नीलपर्वतान्निर्गते सीतानदीमध्ये प्रविष्टे उत्तरदक्षिणायामे गङ्गासिन्धुनामानौ (म्न्यौ) द्वे द्वे नद्यौ वर्तते ।
एकैकस्य क्षेत्रस्य मध्ये एकैको विजयार्धपर्वतः पूर्वापरायामः । तथा एकैकस्य क्षेत्रस्य मध्ये ३० विजया पर्वतादुत्तरस्यां दिशि नीलपर्वताद् दक्षिणस्यां दिशि वृषभगिरि म पर्वतो वर्तते ।
- १ देवकुरुनाम्नोत्तमभो- आ०, द०, ब०, ज० । २ द्वे वेदिकानि- आ०, द , ब०, ज० । ३ नवभिः रथ्ये अष्ट- ता० । ४-नि कथ्यन्ते आ०, ब०, द०, ज० ।
For Private And Personal Use Only