________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३।१० ]
तृतीयोऽध्यायः
१२७
नाम मद्यं न भवति । किं तर्हि ? क्षीरदधिसर्पिरादिसुगन्धसलिलपानकं भवति । कामशक्तिजनकत्वान्मद्यमित्युपचर्यते । द्वितीयाः कल्पवृक्षा वादित्राङ्गा भवन्ति । ते मृदङ्गपटहझल्लरीभेरीभम्भातालकंसता लघण्टा वेणुवीणास्वर मण्डलादीनि वादित्राणि फलन्ति । तृतीयाः कल्पवृक्षाः भूषणाङ्गनामानः कटक कटिसूत्रहारनू पुरमुकुटकुण्डलाङ्गुलीयकादीनि भूषणानि फलन्ति । चतुर्थाः कल्पवृक्षा माल्याङ्गनामानः अशोकचम्पकपारिजातशत पत्रकुमुदनीलोत्पल - ५ सौगन्धिकजातीकेतकीकुब् ज कनवमालिका व कुलादिमालाः फलन्ति । ज्योतिरङ्गकल्पद्रुमा निजोद्योतेन सूर्यादीनामपि तेजो निस्तेजयन्ति । ज्योतिरङ्गद्योतेन भोगभूमिजाश्चन्द्रसूर्यादीन् तु पश्यन्ति । दीपाङ्गकल्पवृक्षाः प्रबालकुसुमसदृशान् प्रदीपान् फलन्ति । तेभ्यो दीपान् गृहीत्वा भोगभूमिजा निजगृहमध्येषु सान्धकारप्रदेशेषु प्रविशन्ति । गृहाङ्गकल्पवृक्षाः प्राकारगोपुरसंयुक्तसप्तभूमरत्नमयप्रासादरूपेण परिणमन्ति । भोजनाङ्गकल्पवृक्षाः षड्रससंयुक्तम- १० मृतमयं दिव्यमाहारं फलन्ति । भाजनाङ्गकल्पवृक्षा मणिसुवर्णमयभृङ्गारस्थालवर्तुलककुम्भादिकानि भाजनानि फलन्ति । वस्त्रांङ्गकल्पवृक्षा चीनाम्बर पट्टकूलनेत्र सूत्रमय कानीदेशाद्युद्भवसदृशानि वस्त्राणि फलन्ति ।
तत्र अमृतरसायन स्वादूनि चतुरङ्गुलप्रमाणानि बाष्पच्छेद्यान्यतिकोमलानि तृणानि भवन्ति । तानि पञ्चवर्णगावश्चरन्ति । तत्र भूमिः पञ्चरत्नमयी उद्वर्तितदर्पणसदृशी वर्त्तते । १५ विद्रुममणिसुवर्णमयाः कचित्कचित् क्रीडापर्वता अपि सन्ति । वापीतडागनद्यो रत्नमयसोपानाः सन्ति । नदीतटेषु रत्नमयचूर्णवालुका वर्त्तते । तत्र पञ्चेन्द्रियास्तिर्यञ्चोऽविरोधिनोऽमांसाशिनोऽसर्पादिकाः सन्ति । विकलत्रयं न वर्त्तते । तत्र मृदुहृदया अकुटिलपरिणामा मन्दकषायाः सुविनीताः शीलादिसंयुक्ताः मनुष्या ऋष्याहारदानेन तिर्योऽपि तदनुमोदन चोत्पद्यन्ते । तत्रत्याः सदृदृष्टयो मृताः सन्तः सौधर्मेशानयोः कल्पयोरुत्पद्यन्ते । २० वापी पुष्करणी सरोवरप्रभृतिषु जलचराः न सन्ति ।
I
महाहिमवत्पर्वतनिषधपर्व तयोर्मध्ये पूर्वापर समुद्रयोश्चान्तराले हरिनाम वर्ष : क्षेत्र वर्तते । तन्मध्ये शब्दवद्वेदान्यसदृशो विकृतवान् नाम वेदाढ्यो वर्तते । सोऽपि पर्वतः पटहाकारवृत्तो ज्ञातव्यः । हरिक्षेत्रं मध्यमा भोगभूमिः । तत्र भोगभूमिजा मनुष्या गव्यूतिद्वयोन्नताः पल्यद्वयजीवितव्याः पूर्णिमाचन्द्रवर्णतेजस्का दिनद्वयान्तरितविभीतकफलप्रमाणभोजनाः । २५ तत्र विंशतिगव्यूत्युन्नताः कल्पवृक्षाः । अन्या वर्णनाः पूर्ववद् वेदितव्याः ।
निषधपर्वत नीलपर्व तयोर्मध्ये पूर्वापरलमुद्रयोश्च मध्ये विदेहो नाम वर्ष : क्षेत्रं वर्तते । तत्क्षत्रं चतुःप्रकारम् - मेरोः सकाशात्पूर्वं क्षेत्रं पूर्वविदेहः । मेरोः सकाशात् पश्चिमायां दिश्यपरविदेहः । मेरोर्दक्षिणस्यां दिशि देवकुरवः । मेरोरुत्तरस्यां दिश्युत्तरकुरव इति । तत्र जिनधर्मविनाशाभावात् सदाधर्मप्रवर्तनात् विगतदेहा मनुष्याः प्रायेण सिद्धा भवन्ति । ३०
१ झारी । २ –तरसमयानि स्त्रा- आ०, ६०, ब० । तमयानि स्वा- ज० । ३ शब्दवद्बलाढ्य - ० ज० ।
For Private And Personal Use Only