________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६ तत्त्वार्थवृत्ती
[३।१० जघन्येन तु सप्तहस्तप्रमाणं शरीरं भवति । उत्कर्षेण कोटिपूर्वमायुर्भवति । जघन्येन' विंशत्यनं शतं वर्षाणामायुर्भवति । उक्तश्च
"भरते म्लेच्छखण्डेषु विजयार्द्धनगेषु च।
चतुर्थतमयाद्यन्ततुल्यकोलोऽस्ति नापरः ॥" [ ] ५ विजया पर्वताइक्षिणस्यां दिशि गङ्गासिन्धुमहानदीद्वयमध्येऽयोध्या नगरी वर्तते ।
विजया पर्वतादुत्तरस्यां दिशि क्षुद्र हिमवत्पर्वताइक्षिणस्यां दिशि गङ्गासिन्धुमहानदीद्वयमध्ये म्लेच्छखण्डमध्यवर्ती वृषभनामा गिरिः पर्वतोऽस्ति । स एकयोजनशतोन्नतः पञ्चाशद्योजनविष्कम्भायामः सुवर्णरत्नमयो वनवेदिकातोरणसंयुक्तो जैनचैत्यसहितश्च । तत्र पर्वते
चक्रवर्ती निजप्रसिद्धिं लिखति । क्षुद्रहिमवत्पर्वतमहाहिमवत्पर्वतयोर्मध्ये पूर्वपश्चिमसमुद्रयोश्च १० मध्ये हैमवतं नाम क्षेत्रं वर्तते । तत्क्षेत्रं जघन्या भोगभूमिर्वतते । हैमवतक्षेत्रमध्यप्रदेशे शब्दवान्
नाम पर्वतो वर्तते । स पर्वतः पटहाकारो वर्तुलाकारः एकसहस्रयोजनोग्नतः सार्द्धद्विशतयोजनभूमिमध्यगतः, उपरि मूले चैकयोजनसहस्रविष्कम्भायामः किनिधिकयोजनत्रिसहस्रपरिक्षेपः। तत्र गव्यूत्युत्सेधमङ्गम् । पल्यमेकमायुः । प्रियङ्गुश्यामं शरीरम् । एकान्तरेणा
मलकप्रमाणं" भोजनम् । अन्त्यनवमासेषु गर्भ उत्पद्यते । स्त्रीपुरुषयुगलं जायते । १५ पूर्वयुगलं हुतेन जृम्भया च म्रियते । विद्युदिव तच्छरीरं विघटते । नवीनं युगलं सप्तदि
वसान्निजाङ्गुष्ठपानेनोत्तानशयं तिष्ठति। तदनन्तरं सप्तदिवसान भूमौ रिङ्गति। तृतीयसप्ताहेन मधुरभाषी स्खलद्भिः पादैर्गच्छति । चतुर्थसप्ताहेन स्थिरपादैजति । पञ्चमसप्ताहेन कलागुणान् धरति । षष्ठसप्ताहेन निर्विकल्पं तारुण्यं प्राप्य भोगान् भुङ्क्ते । सप्तमसप्ताहेन सम्यक्त्वग्रहणयोग्यं भवति । तथा चोक्तम्
"सप्तोत्तानशया लिहन्ति दिवसान् स्वाङ्गुष्ठमार्यास्ततः को रिङ्गन्ति ततः पदैः कलगिरी यान्ति स्खलद्भिस्ततः । स्थेयोभिश्च ततः कलागुणभृतस्तारुण्यभोगोद्गताः . सप्ताहेन ततो भवन्ति सुदृगादानेऽपि योग्यास्ततः॥१॥" [सागारध० २।६८]
एवं सर्वाणि युगलानि दशगव्यूत्युन्नतदशविधकल्पवृक्षोत्पन्नभोगान् भुञ्जते । पुरुषः २५ स्त्रियमार्येति वक्ति । स्त्री पुरुषमायं इत्युक्त्वा आह्वयति । तेन कारणेन ते भोगभूम्युद्भवाः मनुष्या आर्याः कथ्यन्ते ।
अथ के ते दशप्रकाराः कल्पवृक्षाः ? प्रथमे मद्याङ्गाः कल्पवृक्षाः ते मधं सवन्ति । मद्यं
१-न पञ्चविंशत्यप्रशतव- आ०, द., ब०, ज० । २ -कालो न चापरः आ०, २०, ५०, ज० । ३ परिधिक्षेत्रः ज०। ४ -मङ्गं कल्पमे- आ०, द०, ज० । ५ -गभो- ता०, व० | ६ -युगलेषु तेन भा०, २०, ज०,०। ७ रङ्गति बा०, ५०1८-स्पता-प० ।
For Private And Personal Use Only