SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२५ ३।१०] तृतीयोऽध्यायः शतसहस्रं विष्कम्भो विस्तारो यस्य जम्बूद्वीपस्य स भवति योजनशतसहस्रविष्कम्भः, एकलक्षयोजनविस्तार इत्यर्थः । उपरिस्थितवेदिकेन सालेन सह लक्षयोजनविष्कम्भः इति भावः। स जम्बूद्वीपसालः अष्टयोजनोच्चः, मूले द्वादशयोजनविस्तारः, मध्येऽष्टयोजनविस्तारः, उपरि चाष्टयोजनविस्तारः । तत्सालोपरि रत्नसुवर्णमयी वेदिका 'चोभयपाश्वें वर्तते । सा वेदिका क्रोशद्वयोन्नता वर्त्तते । तस्या वेदिकाया विस्तारो योजनमेकं क्रोशश्चैकः ५ धनुषां सहस्रं सप्तशतानि पश्चाशद्युतानि च। तद्वेदिकाद्वयमध्ये सालस्योपरि महोरगदेवप्रासादाः सन्ति । ते प्रासादाः रत्नमया वनवृक्षवापीतडागजिनभवनमण्डिता अनादिनिधनास्तिष्ठन्ति । तस्य दुर्गस्य पूर्वदक्षिणपश्चिमोत्तरेषु चत्वारि द्वाराणि वर्त्तन्ते । तन्नामानिविजयवैजयन्तजयन्तापराजितानि क्रमाद्विज्ञेयानि । तद्द्वारोच्चत्वमष्टयोजनानि, विस्तारश्चतुयोजनानि, चतुराग्रे जिनप्रतिमा अष्टप्रातिहार्यसंयुक्ता वर्तन्ते । तस्य जम्बू द्वीपस्य १० परिक्षेपस्त्रीणि योजनलक्षाणि सप्तविंशत्यो द्वे शते च योजनानां त्रयः क्रोशा अष्टाविंशत्यग्रं धनुःशतं च अङ्गुलयस्त्रयोदश च किञ्चिदधिकमर्दाङ्गुलं च । तस्मिन् जम्बूद्वीपे षटकुलपर्वतैः कृतानि यानि सप्त क्षेत्राणि वर्तन्ते, तन्नामानि भगवान प्राह - भरतहैमवतहरिविदेहरम्यकहैरणयवतैरावतवर्षाः क्षेत्राणि ॥१०॥ १५ भरतश्च हैमवतश्च हरिश्च विदेहश्च रम्यकश्च हैरण्यवतश्च ऐरावतश्च भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावताः । ते च ते वर्षा भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः । क्षेत्राणि क्षियन्ति अधिवसन्ति प्राणिन एष्विति क्षेत्राणि । तथा हि भरतवर्षो भरतक्षेत्रं प्रथमं क्षेत्रम् । हिमवतो मध्ये भवो हैमवतवर्षों द्वितीय क्षेत्रम् । हरति जघन्यभोगभूमितयाऽऽर्याणां दुःखमिति हरिवर्षस्तृतीयं क्षेत्रम् । विगतदेहा मोक्षगामिनः २० प्रायेण मुनयो यत्र स विदेहवर्षश्चतुर्थ क्षेत्रम् । रम्यं मनोहरं मध्यमभोगभूमितयाऽऽर्याणां कं सुखं यस्मिन्निति रम्यकवर्षः पञ्चमं क्षेत्रम् । हिरण्यवान् सुवर्णमयत्वाच्छिखरी पर्वतस्तस्य दक्षिणतो भवो हैरण्यवतवर्षो जघन्यभोगभूमिरूपं षष्ठं क्षेत्रम् । इरावान् समुद्रस्तस्य दक्षिणतो भव ऐरावतवर्षः सप्तमं क्षेत्रम् । एतान्यनादिसिद्धनामानि सप्त क्षेत्राणि भवन्ति । तथा हि हिमवत्पर्वतपूर्वसमुद्रदक्षिणसमुद्रपश्चिमसमुद्राणां चतुर्णा मध्ये गङ्गासिन्धुनदीद्वयेन २५ विजया पर्वतेन च षट्खण्डीकृतः चटापितचापाकारो भरतवर्षः कथ्यते । तस्य भरतवर्षस्य मध्ये पञ्चाशद्योजनविस्तार. पञ्चविंशतियोजनोत्सेधः क्रोशैकाधिकषट्योजनभूमिमध्यगतो रजतमयो विजयार्धपर्वतोऽस्ति । तत्र विजया पर्वते भरतक्षेत्रसम्बन्धिम्लेच्छखण्डेषु च चतुर्थकालस्याद्यन्तसदृशकालो वर्तते । तेन तत्र उत्कर्षेण पञ्चशतधनुरुत्सेधमङ्गं भवति । १-ह सूत्रमिदम व०॥ For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy