________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४ तत्त्वार्थवृत्तौ
[३९ द्विगुणः सप्तविंशतिकोट्यधिकत्रिशतकोटि-अष्टषष्टिलक्षयोजनविस्तारो नन्दीश्वरवरसमुद्रः । तस्माद् द्विगुणः षट्त्रिंशल्लक्षाधिकाः पञ्चपञ्चाशत्कोटयः षट्शतकोटयः एतावद्योजनविस्तारः अरुणवरद्वीपः । तस्माद् द्विगुणो द्वासप्ततिलक्षाधिकाः दशकोटयस्त्रयोदशशतकोटयः एतायद्योजनविस्तारोऽरुणवरसमुद्रः 'पर्यन्तं गहनं गणितशास्त्रम्' [ ] इति वचनात् कियत्पर्यन्तं गण्यते ? अनया रीत्या स्वयम्भरमणपर्यन्तं द्विगुणविष्कम्भाः द्वीपसमुद्राः असंख्येया ज्ञातव्याः। अत्रायं विशेषः-यथा जम्बूद्वीपलवणसमुद्रविस्तारो द्वयसमुदायात् त्रिलक्षयोजनप्रमिताद् धातकीखण्डद्वीपः एकलक्षेणाधिकस्तथा असंख्येयद्वीपसमुद्रविस्तारेभ्यः स्वयम्भूरमणसमुद्रविस्तार एकलक्षणाधिको ज्ञातव्यः ।
___पुनरपि कथम्भूता द्वीपसमुद्राः ? पूर्वपूर्वपरिक्षेपिणः। पूर्व पूर्व प्रथमं प्रथम १० परिक्षिपन्ति समन्तात् वेष्टयन्तीत्येवंशीलाः पूर्वपूर्वपरिक्षेपिणः। जम्बूद्वीपो लवणसमुद्रण
वेष्टितः। लवणसमुद्रः धातकीखण्डद्वीपेन वेष्टितः। धातकीखण्डद्वीपः कालोदसमुद्रण वेष्टितः । कालोदसमुद्रः पुष्करवरद्वीपेन वेष्टितः । पुष्करवरद्वीपः पुष्करवरसमुद्रण वेष्टितः । अनया रीत्या पूर्वपूर्वपरिक्षेपिणः, न तु नगरप्रामपत्तनादिवत् यत्र तत्र स्थिताः। पुनरपि
कथम्भूता द्वीपसमुद्राः ? वलयाकृतयः । गजदन्तकाचादिकृतानि कङ्कणानि स्त्रीकरभूषणानि १५ वलयोन्युच्यन्ते । तद्वत्सर्वेऽपि द्वीपसमुद्रा वर्तुलाकारा वर्तन्ते, न व्यस्राः न च चतुरस्राः न पञ्चकोणाः, न षट्कोणाः इत्याद्याकाररहिताः, किन्तु वृत्ताकारा एव ।
अथ जम्बूद्वीपाद् द्विगुणद्विगुणविस्ताराः किल लवणसमुद्रादयो वर्तन्ते स जम्बूद्वीप एव कियद्विस्तारो भवति, यद्विस्तारादन्यविस्तारो विज्ञायते ? इत्युक्ते तत्स्वरूपमाहुः
तन्मध्ये मेरुनाभिवृत्तो योजनशतसहस्रविष्कम्भो जम्बूमीपः ॥ ६॥ २० तेषां द्वीपसमुद्राणां मध्यस्तन्मध्यः तस्मिन् तन्मध्ये सर्वद्वीपसमुद्राणां मध्यप्रदेशे
जम्बूद्वीपो वर्तत इत्यर्थः । कथम्भूतो जम्बूद्वीपः ? मेरुनाभिः, मेरुः सुदर्शननामा कनकपर्वतः एकसहस्रयोजनभूमिमध्ये स्थितः नवनवतिसहस्रयोजनबहिरुन्नतः। श्रीभद्रशालवनादुपरि पञ्चशतयोजनलभ्यनन्दनवनः, नन्दनवनात्रिषष्टियोजनसहस्रं सम्प्राप्य सौमनसवनः ।
सौमनसवनात् सार्द्धपश्चत्रिंशत्सहस्रयोजनगम्यपाण्डुकवनः । चत्वारिंशद्योजनोन्नतचूलिका, २५ सा चूलिका सार्द्धपश्चत्रिंशत्सहस्रयोजनमध्य एव गणनीया। स एवंविधो मेरुनाभिर्मध्य
प्रदेशो यस्य जम्बूद्वीपस्य मेरुनाभिः । पुनरपि कथम्भूतो जम्बूद्वीपः ? वृत्तः वर्तुलः । आदित्यविम्बवद्वर्तुलाकार इत्यर्थः। 'पुनरपि कथम्भूतो जम्बूद्वीपः १ योजनशतसहस्रविष्कम्भः । शतानां सहस्रं शतसहस्रम् , योजनानां शतसहस्रं योजनशतसहस्रम् , योजन
१ पर्यन्तग- द०, ज० ३० । २ - यानि कथ्यन्ते भा०, २०, ब०, ज० । ३ न चतु- आ० व०, द., ज०। ४ किं ल- आ०, ब०, द., ज०। ५ कियान् वि- आ०, ब०, ६०, ज० । ६ पुनः कि विशिष्टो ज- आ०,०, १०, ज० ।
For Private And Personal Use Only