SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१८] तृतीयोऽध्यायः तथा चोक्तम् "चत्वारिंशत्सहस्राणि लक्षं चैकोनविंशतिः। शतं तदर्घोत्सेधाः स्युः जम्बोर्जम्बुतरोरिमाः ॥ [ ] पंञ्चशतयोजनोत्सेधो मूलवृक्षः। एतेन जम्बूवृक्षणोपलक्षितत्वाज्जम्बूद्वीप इत्युच्यते । यादृशो जम्बू वृक्षः तादृशो देवकुरुमध्ये शाल्मलिवृक्षोऽपि वर्तते । यावन्तो वृक्षास्तावन्तो ५ रत्नमया जिनप्रासादा ज्ञातव्याः। एवं धातकीवृक्षोपलक्षितो धातकीद्वीपः। पुष्करवृक्षोपलक्षितः पुष्करद्वीपः। अर्थतेषामसंख्येयद्वीपसमुद्राणां विस्तारसूचनार्थ सनिवेशकथनार्थ संस्थानविशेषनिरूपणार्थश्च सूत्रमिदं प्रतिपादयन्ति दिदिविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाऽऽकृतयः ॥ ८॥ १० द्विविषिष्कम्भो द्विगुणद्विगुणविस्तारो येषां द्वीपसमुद्राणां ते विद्धिर्विष्कम्भा जातिक्रियाद्रव्यगुणैर्युगपत् प्रयोक्तुळाप्तुमिच्छा चीप्सा वीप्सार्थे "पदस्य" [शाकटा० १।२।९२]। इति सूत्रेण द्विःसह द्विर्षचनम् । अत्र विष्कम्भस्य द्विगुणत्वव्याप्त्यर्थे वीप्सा वर्त्तते । तेन विष्कम्भस्य गुणवचनत्वात् एषा गुणवीप्सा वर्तते । उक्तश्च जात्यादिशब्दानां लक्षणम्"दव्यक्रियाजातिगुणप्रभेदैडवित्थकत द्विजपाटलादौ । १५ शब्दप्रवृत्तिं मुनयो वदन्ति चतुष्टयीं शब्दविदः पुराणाः॥१॥" [ ] ____ कया रीत्या द्विगुणद्विगुणविष्कम्भो द्वीपसमुद्राणां भवति ? इत्याह--एकलक्षयोजनविस्तारो जम्बूद्वीपः । तद्विगुणविस्तारः द्विलक्षयोजनविस्तारो लवणोदसमुद्रः। तस्माद् द्विगुणविस्तारश्चतुर्लक्षयोजनविस्तारो धातकीद्वीपः। तस्माद् द्विगुणोऽष्टलक्षयोजनविस्तारः कालोदसमुद्रः । तस्माद् द्विगुणः षोडशलक्षयोजनविस्तारः पुष्करवरद्वीपः । तस्माद् द्विगुणो २० द्वात्रिंशल्लक्षयोजनविस्तारः पुष्करवरसमुद्रः। तस्माद् द्विगुणः चतुःषष्टिलक्षयोजनविस्तारो वारुणीवरद्वीपः। तस्माद् द्विगुण एककोट्यष्टाविंशतिलक्षयोजनविस्तारो वारुणीवरसमुद्रः। तस्माद् द्विगुणो द्विकोटिषट्पञ्चाशल्लक्षयोजनविस्तारः क्षीरवरद्वीपः। तस्मात् द्विगुणः पञ्चकोटिद्वादशलक्षयोजनविस्तारः क्षीरवरसमुद्रः। तस्माद् द्विगुणो दशकोटिचतुविशतिलक्षयोजनविस्तारो घृतवरद्वीपः । तस्माद् दिगुणो विंशतिकोट्यष्टचत्वारिंशल्लक्षयोजन- २५ विस्तारो घृतवरसमुद्रः। तस्माद् द्विगुणश्चत्वारिंशत्कोटिषण्णवतिलक्षयोजनविस्तार इत्वरद्वीपः । तस्माद् द्विगुण एकाशीतिकोटिद्विनवतिलक्षयोजनविस्तार इक्षुवरसमुद्रः। तस्माद् द्विगुण एकशतत्रिषष्टिकोटिचतुरशीतिलक्षयोजनविस्तारो नन्दीश्वरवरद्वीपः । तस्माद् १ लक्षा चै- आ०, ब०, २०, ज०, वा० । २ पंचविंशतियो- भा०, व०, २०, ज० । ३ -तोऽयं पु- भा०, ५०, द०, ज०। ४ -योक्तव्यामिच्छा मा०, ब०, २०, ज० । ५ -णीसआ०, ब०, द०,०। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy