________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२ तत्त्वार्थवृत्ती
[३७ यदि प्रथमनरकं कश्चिदवच्छिन्नतया निरन्तरं गच्छति तर्हि अष्टवारान् । यदि द्वितीयं नरकं निरन्तरं गच्छति तर्हि सप्तवारान् ब्रजति । तृतीयं षड्वारान् ब्रजति । चतुर्थ पञ्चवारान् । पञ्चमं चतुरान् । षष्ठं त्रीन वारान् । सप्तमं द्वौ वाराविति । सप्तमान्नरकानिर्गतस्तिर्यगेव भवति, पुनश्च नरकं गच्छति । षष्ठानिर्गतो नरत्वं यदि प्राप्नोति तर्हि देशबतित्वं न प्राप्नोति, सम्यक्त्वं तु न निषिध्यते । पश्चमान्निर्गतः देशबतित्वं लभते, न महाबतित्वम् । चतुर्थान्निर्गतः कोऽपि निर्वाणमपि गच्छति । तृतीयाद् द्वितीयात्प्रथमाच्च विनिर्गतः कश्चित्तीर्थङ्करोऽपि भवति।
अथेदानी तिर्यग्लोकस्वरूपनिरूपणार्थ सूत्रमिदमाहुराचा-:
जम्बूद्धीपलवणोदादयः शुभनामानो दोपसमुद्राः ॥७॥ १० जम्बूद्वीपश्च जम्बुनामद्वीपः, लवणवत् क्षारसुंदकं जलं यस्य स लवणोदः, जम्बू
द्वीपश्च लवणोदश्च जम्बूद्वीपलवणं,दो, तावादी येषां द्वीपसमुद्राणां ते जम्बूद्वीपलवणोदादयः । जम्बूद्वीपादयो द्वीपा लवणोदादयः समुद्राः द्वीपसमुद्राः । कथम्भूताः ? शुभनामानः शुभानि मनोज्ञानि यानि नामानि लोके वर्तन्ते तानि शुभानि नामानि येषां द्वीपसमुद्राणां ते
शुभनामानः । तथा हि-जम्बूद्वीपनामा प्रथमो द्वीपः। लवणोदनामा प्रथमः समुद्रः । १५ आदिशब्दात् धातकीखण्डनामा द्वितीयो द्वीपः । कालोदनामा द्वितीयः समुद्रः। पुष्कर
वरनामा तृतीयो द्वीपः। पुष्करवरनामा तृतीयः समुद्रः । वारुणीवरनामा चतुर्थो द्वीपः । वारुणीवरनामा चतुर्थः समुद्रः। क्षीरवरनामा पञ्चमो द्वीपः । क्षीरवरनामा पश्चमः समुद्रः । घृतवरनामा षष्ठो द्वीपः। घृतवरनामा षष्ठः समुद्रः । इक्षुवरनामा सप्तमो द्वीपः। इच
वरनामा सप्तमः समुद्रः। नन्दीश्वरनामा अष्टमः समुद्रः, नन्दीश्वरनामा अष्टमो द्वीपः। २० अरुणवरनामा नवमो द्वीपः । अरुणवरनामा नवमः समुद्रः । एवं स्वयम्भूरमणद्वीपपर्यन्ता
असंख्येया'द्वीपाः स्वयम्भूरमणपर्यन्ता असंख्येयाः समुद्रा ज्ञातव्याः। असंख्येया इत्युक्ते कियन्तो द्वीपसमुद्राः ? पञ्चविंशत्युद्धारपल्यकोटीनां यावन्ति रोमखण्डानि भवन्ति तावन्तो द्वीपसमुद्रा ज्ञातव्याः।
मेरोरुत्तरस्यां दिशि उत्तरकुरुनामोत्तमभोगभूमिमध्ये जम्बूवृक्षो वर्तते । स सदा २५ शाश्वतो नानारत्नमयो मरकतमणिमयस्कन्धशाखः स्फटिकमणिमयपुष्पमञ्जरीक इन्द्रनीलमणिमयफलः कृष्णफल इत्यर्थः, हरितमणिमयपत्रः। जम्बूदेवोषितप्राक्शाखः तवृक्षस्य चतुर्दिनु चत्वारः परिवार वृक्षाः। तथा लक्षक(कम् )चत्वारिंशत्सहस्राणि एकं शतं पञ्चदश च परिवारवृक्षा वर्तन्ते । एवं सर्वेऽपि जम्बूवृक्षा मिलित्वा वृक्षाणामेकं लक्षं चत्वारिंशत्सहस्राणि एक शतं एकोनविंशतिश्च, मूलवृशेण सह विंशतिश्च वृक्षा भवन्ति । १४०१२० ।
१ -रमुदं ज- १०, ज०, ता०। २ -के प्रव- मा०, २०, ६०, ज०। ३-वरवरनाता०। ४ -श्वरवरना- ता०, व० । ५ -णप- श्रा०, ब०, ज०, प० । ६ -यद्वी- ता०, व०, ज०। ७-शप-वा०, भा०, ज० ।
For Private And Personal Use Only