SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२१ ३६] तृतीयोऽध्यायः पञ्चमभूप्रथमेऽस्मिन्नेकादशपञ्चभागभागयुगम् । द्वादशचतुरंशयुताः द्वितीयकेऽतश्चतुर्दशांशश्च ॥ १५ ॥ तुयें पञ्चदशांशास्त्रयः परं पञ्चमे तु सप्तदश । षष्ठभूप्रथमपटलेऽष्टादशभागत्रयद्वयंशौ ॥ १६ ॥ अम्बुधिविंशतिरंशो द्वितीयके विंशतिस्तृतीये तु ।। अर्णवयुगेन सप्तमभुवि त्रयस्त्रिंशदम्बुधयः ॥ १७ ॥" [ प्रथमे पटले जघन्यमायुर्दशवर्षसहस्राणि भवन्ति । उत्कृष्टं तु 'पूर्वमेवोक्तम् । यत्प्रथमपटले उत्कृष्टमायुस्तद्वितीयपटले जघन्यं ज्ञातव्यम् । एवं सप्तस्वपि नरकेष्वेकोनपञ्चाशत्पटलेष्वायुरनुक्रमो ज्ञातव्यो यावत् सप्तमे नरके एकोनपञ्चाशत्तमे पटले द्वाविंशतिसागरोपमा जघन्या स्थितिरवगन्तव्या।। तेषु नरकेषु मद्यपायिनो मांसभक्षका मखादौ प्राणिघातका असत्यवादिनः परद्रव्यापहारकाः परस्त्रीलम्पटा महालोभाभिभूताः रात्रिभोजिनः स्त्री-बाल-वृद्ध-ऋषिविश्वासघातका जिनधर्मनिन्दका रौद्रध्यानाविष्टा इत्यादिपापकर्मानुष्ठातारः समुत्पद्यन्ते । उपरिपादा अधोमस्तकाः सर्वेऽपि समुत्पद्य अधः पतन्ति । दीर्घकालं दुःखान्यनुभवन्ति । मेरुमात्रं भोजनं भोक्तुमिच्छन्ति, आसुरीमात्रमपि न प्राप्नुवन्ति। समुद्रजलं पिपासन्ति, जलबिन्दुमात्रमपि १५ न प्राप्नुवन्ति । सदा सुखं वाञ्छन्ति, चतुरुन्मेषमात्रमपि कालं सुखं न लभन्ते। तथा घोक्तम् "अच्छिणिमीलणमित्तं णत्थि सुहं दुक्खमेव अणुबई । णिरये गैरइयाणं अहोणिसं पच्चमाणाणं ॥१॥" [ तिलोयसा० गा० २०७ ] अन्यच्च "असण्णि-सरिसव-पक्खी-भुजगा-सिंहि-त्थि-मच्छ-मणुया य। . पढमादिसु उप्पत्ती अडवारा दोणि वारुत्ति ॥" [ अस्यायमर्थः-असज्ञिनः प्रथमनरकमेव गच्छन्ति । सरीसृपा द्वितीयमेव नरकं गच्छन्ति । पक्षिणस्तृतीयमेव नरकं ब्रजन्ति । भुजगाश्चतुर्थमेव नरकं यान्ति। सिंहाः पश्चममेव नरकं "जिहते । स्त्रियः षष्ठमेव । मत्स्याः मनुष्याश्च सप्तममेव नरकर्मियन्ति । २५ १ पूर्वोक्तम् आ०, द०, ब०, ज० । २ -नुष्ठान्नारका स- ज० । ३ अधोमुखाः आ०, १०, ज०, ३० । ४ अक्षिनिमीलनमात्रं नास्ति सुखं दुक्खमेव अनुबद्धम् । नरके नारकाणामहर्निशं पच्यमानानाम् ॥ ५ असंजिसरीसृपपक्षिभुजगसिंहस्रीमत्स्यमनुजाश्च । प्रथमादिषु उत्पत्तिरष्टवारान् द्विवारं यावत् ।। ६ -यमेव व्र-वा०, प० । ७ विरहन्ति आ०, ब०, २०, ज1८ -मियन्ति भा०, ब०,१०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy