________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
तत्त्वार्थवृत्तौ पूर्वाणां खलु कोट्योऽसंख्याताः स्युस्तृतीयके । तुर्ये सागरदशमो भागः पञ्चमके पञ्चमश्चैव ॥ २ ॥ सागरदशभागानां त्रयस्तु भागा भवन्ति खलु षष्ठे । सप्तमके चत्वारो भागा अब्ध्यर्धमष्टमके ॥३॥ नवमे दशभागानां षड्भागा दशमके तु सप्तैव । एकादशेष्ट नव तु द्वादशकेऽब्धिस्त्रयोदशके ॥ ४ ॥ अथ कथयामि मुनीनां द्वितीयभूप्रथमपटलकेब्धिश्च । एकादशभागानां द्वौ भागौ सागरस्यैव ॥ ५॥ पटले द्वितीयकेऽब्धिर्भागाश्चत्वार एव च तृतीये । अब्धिः षड्भागयुतश्चतुर्थकेऽब्धिः कलाश्चाष्ट ॥ ६ ॥ पञ्चमकेऽब्धिर्दशके (?) षष्ठेऽब्धिरेक एव भागश्च । सप्तमके द्वावब्धी त्रयश्च भागा भवन्त्येव ॥७॥ द्वावधी अष्टमके भागाः पञ्चैव सागरौ नवमे । भागाः सप्त च दशमे नव भागाः सागरावपि च ॥ ८ ॥ उदधय एकादशके त्रयस्तृतीयमाप्रथमपटले । अब्धित्रयमपि भागा नवभागानां च चत्वारः ॥ ९ ॥ अब्धित्रयाष्टभागा द्वितीयके सिन्धवस्तृतीये तु । चत्वारोंऽशत्रितयं तुर्ये ते चैव सप्त कलाः ॥ १० ।। पश्चमके द्वथंशयुताः शशध्वजाः पञ्च षष्ठके पञ्च । भागाः षट् सप्तमके षडब्धयोंऽशस्तथा चैकः ॥ ११ ॥ अथ वीचिमालिनः स्युः षडष्टमे भागपञ्चकेन युताः । नवमे महार्णवानां सप्तकमिति साधुभिः कथितम् ॥ १२ ॥ तुर्यभूप्रथमपटले शशध्वजाः सप्त सप्तभागानाम् । भागास्त्रयो द्वितीये सप्ताम्बुधयश्च षड्भागाः ॥ १३ ॥ अष्ट तृतीयेऽम्बुधयो भागौ द्वौ तुर्य केऽष्ट पञ्चकलाः । नव पञ्चमे च षष्ठे चतुरंशा दश तु सप्तमगाः ॥ १४ ॥
For Private And Personal Use Only