SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११९ तृतीयोऽध्यायः मष्ट भागाश्च परा स्थितिः समुदेति। तपननाम्नि तृतीयपटले चत्वारः सागराः सागरनवभागानां त्रयो भागाश्च परा स्थितिः सम्प्रवर्तते। तपननाम्नि चतुर्थपटले सागराश्चत्वारः सागरनवभागानां सप्त भागाश्च परा स्थितिः सम्प्रजायते । निदाघनाम्नि पञ्चमे पटले सागराः पञ्च सागरनवभागानां द्वौ भागौ च परा स्थितिः सम्प्रसिध्यति । प्रज्वलितनाम्नि षष्ठे पटले पञ्च सागराः सागरनवभागानां षट् भागाश्च परा स्थितिः समुत्पद्यते । उज्ज्वलितनाम्नि सप्तमे पटले षट्सागराः सागरनवभागानामेकोभागश्च परा स्थितिः 'सम्पद्यते। संज्वलितनाम्नि अष्टमे पटले षट्सागराः सागरनवभागानां पञ्च भागाश्च परा स्थितिः सन्निष्पद्यते । संप्रज्वलितनाम्नि नवमे पटले सागराः सप्त परा स्थितिः संप्रफलति । चतुर्थपृथिव्याम् आरनाम्नि प्रथमपटले सप्त सागराः सागरसप्तभागानां त्रयो भागाश्च परा स्थितिः समस्ति । तारनाम्नि द्वितीयपटले सागराः सप्त सागरसप्तभागानां १० षड्भागाश्च परा स्थितिः समास्ते । मारनाम्नि तृतीये पटले सागरा अष्ट सागरसप्तभागानां द्वौ भागौ च परा स्थितिः संजागर्ति । वर्चस्कनाम्नि चतुर्थपटले सागरा अष्ट सागरसप्तभागानां पञ्चभागाश्च परा स्थितिः संविद्यते । तमकनाम्नि पञ्चमपटले सागरा नव सागरसप्तभागानामेको भागश्च परा स्थितिः सन्धियते । खडनाम्नि षष्ठपटले सागरा नव सागरसप्तभागानां चत्वारो भागाश्च परा स्थितिः समुद्भवति । खडखडनाम्नि सप्तमे पटले दशसागराः १५ परा स्थितिरुज्जायते । पञ्चमपृथिव्यां तमोनाम्नि प्रथमपटले एकादश सागराः सागरपञ्चभागानां द्वौ भागौ च परा स्थितिः परिसिध्यति। भ्रमनाम्नि द्वितीयपटले सागरा द्वादश सागरपञ्चभागानां चत्वारो भागाश्च परा स्थितिः पर्युदेति । झपनाम्नि तृतीयपटले चतुर्दश सागराः सागरपश्चभागानामेको भागश्च परा स्थितिः पर्युत्पद्यते। अन्धनाम्नि चतुर्थपटले पञ्चदश सागराः २० सागरपञ्चभागानां त्रयो भागाश्च परा स्थितिः परिसम्पद्यते। तमिलनाम्नि पञ्चमपटले सागराः सप्तदश परा स्थितिः परिनिष्पद्यते । षष्ठपृथिव्यां हिमनाम्नि प्रथमपटलेऽष्टादश सागराः सागरत्रिभागानां द्वौ भागौ च परा स्थितिः परिफलति । वई लनाम्नि द्वितीयपटले विंशतिसागराः सागरत्रयभागानामेको भागश्च परा स्थितिः परिजागर्ति । लल्लकनाम्नि तृतीयपटले द्वाविंशतिसागराः परा स्थितिः २५ परिविद्यते। सप्तमपृथिव्यामप्रतिष्ठाननाम्नि पटले सागरात्रयस्त्रिंशत् परा स्थितिबर्बोद्धव्या । भवन्त्यत्रार्याः "प्रथमभूप्रथमपटले वर्षसहस्राणि नवतिरुत्कृष्टा । स्थितिरेतावन्त्येवं द्वितीयके भवति लक्षाणि ॥१॥ १ समुत्पद- भा०, २०, २०, ज० । सम्प्रपद्यते व० । २-तावत्येव मा०, द०, ब०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy