SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३।५-६] तृतीयोऽध्यायः संक्लिष्टासुरोदीरितदुःखाश्च प्राक्चतुर्थ्याः ॥ ५॥ प्राग्भवसंभावितातितीव्रसंक्लेशपरिणामोपार्जितपापकर्मोदयात् सम् सम्यक् सन्ततं वा क्लिश्यन्ते स्म आरौिद्रध्यानसंप्राप्ता ये ते संक्लिष्टाः। असुरत्वप्रापकदेवगतिनामकर्मप्रकारकर्मोदयादस्यन्ति क्षिपन्ति प्रेरयन्ति परानित्यसुराः। संक्लिष्टाश्च ते असुराश्च संक्लिष्टाऽसुराः । संक्लिष्टासुरैरुदीरितमुत्पादितं दुःखमसातं येषां ते संक्लिष्टासुरोदीरितदुःखाः । प्राक् ५ पूर्वमेव चतुर्थ्याः । पङ्कप्रभाभूमेः पूर्वमेव रत्नशर्करावालुकाप्रभारवेव तिसृषु नरकभूमिध्वसुरोदीरितं दुःखं भवतीति ज्ञातव्यम् । ने त्वधश्चतसृषु असुरोदीरितं दुःखमस्तीति ज्ञातव्यम् । तत्रापि ये केचनासुरा अम्बाम्बरीषादयः संक्लिष्टा असुग वर्तन्ते त एव नारकाणां दुःखमुत्पादयन्ति । न तु सर्वेऽप्यसुरा नारकाणां दुःखमुत्पादयन्ति । अम्बाम्बरीषादय एव केचित्पूर्ववैरादिकं स्मारयित्वा तिसृषु भूमिषु यात्वा नारकान् योधयन्ति । तेषां युद्धं दृष्ट्वा तेषां सुख- १० मुत्पद्यते । अन्येषु प्रीतिहेतुभूतेषु विनोदेषु सत्स्वपि युद्धं कारयतां पश्यतां च सुखमुत्पद्यते। तादृशः संक्लेशपरिणामः तैरुपार्जितः पूर्वजन्मनीति भावः । भवति चात्र श्लोकः "अम्बाम्बरीषप्रमुखाः पूर्ववैरस्मृतिप्रदाः। योधयन्त्यसुरा भूषु तिसृषु क्लिष्टचेतसः ॥ १ ॥" [ ] तिलतिलप्रमाणशरीरखण्डनेऽपि तेषामपमृत्युनं वर्तते। शरीरं पारदवत् पुनर्मिलति १५ अनपवायुष्ट्वात् । चकारः पूर्वोक्तदुःखसमुच्चयार्थः। तेन तप्तलोहपुत्तलिकालिङ्गनतप्ततैलसेचनाऽयःकुम्भीपचनादिकं दुःखमुत्पादयन्ति ते असुरा इति तात्पर्य्यम् । अर्थतेषां किलायुरकाले न त्रुट्यति इत्युक्ते कियत्कियत्परिमाणं तदायुर्वतते इति प्रश्ने सूत्रमिदमाहुःतेष्वेकत्रिससदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा २० सत्त्वानां परा स्थितिः॥ ६॥ यथाक्रममिति पूर्वोक्तमत्र ग्राह्यं "तासु त्रिंशत्' इत्यादि सूत्रे प्रोक्तम् । तेनायमर्थःतेषु नरकेषु सप्तभूम्यनुक्रमेण सत्त्वानां नारकाणां परा उत्कृष्टा स्थितिर्वेदितव्या। सत्वानामित्युक्ते भूमीनां स्थितिरिति न ग्राह्यम् , भूमीनां शाश्वतत्वात्। कथम्भूता स्थितिः ? एकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा। सागरशब्दः प्रत्येकं प्रयुज्यते । तेनाय- २५ मर्थः-एकसागरः 'त्रिसागराः सप्तसागराः दशसागराः सप्तदश सागराः द्वाविंश'तिसागराः त्रयस्त्रिंशत्सागराः उपमा यस्याः स्थितेः सा तथोक्ता । अस्यायमर्थःरत्नप्रभायां परा उत्कृष्टा स्थितिरेकसागरोपमा । शर्कराप्रभायां त्रिसागरोपमा परा स्थितिः । १ ततश्चतसृषु असुरोदोरितं दुखं नास्तीति ज०। २ सूतवत् ता० । ३ -युष्कात् भा०, द०, ज०, ब०। ४ त्रयः सा- ता०, व०। ५ -तिः सा- ता०, व० For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy