SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११६ तत्त्वार्थवृत्ती [३।४ 'वयं शुभं करिष्यामः' इति उद्यमेऽप्यशुभैव विक्रियोत्पद्यते । 'वयं सुखहेतुनुत्पादयामः' इत्युद्यमेऽपि सति दुःखहेतुमेवोत्पादयन्ति । एवमशुभतरा विक्रिया नारकेषु ज्ञातव्या । भवन्ति चात्र श्लोकाः "कापोती तु द्वयोर्लेश्या तृतीये सा च नीलिका । नीला तुरीये नीला च कृष्णा च परतः स्मृता ॥१॥ कृष्णा षष्ठे, महाकृष्णा सप्तमे नरके मता । धनुः कराङ्गुलीरुचाः सप्तत्रिषडपि क्रमात् ॥ २ ॥ द्विस्तितश्चतुर्ध्वस्ति तेषूष्णा तीव्रवेदना । पञ्चमे पञ्चविंशत्याऽधिकयोर्लक्षयोर्द्वयोः ॥३॥ बिलानां वेदनोष्णैव ततोऽन्यत्र च शीतला । षष्ठे च सप्तमे श्वभ्रे शीतैव खलु वेदना ॥४॥" [ ] अर्थतेषां नारकाणां शीतोष्णोत्पादितैव वेदना वर्त्तते, आहोस्विदन्यदपि दुःखं तेषां वर्त्तते न वेति प्रश्ने सूत्रमिदमाहुः परस्परोदीरितदुःखाः ॥ ४॥ १५ परस्परस्य अन्योन्यस्य उदीरितमुत्पादितं दुःखं यस्ते परस्परोदीरितदुःखा नारका भवन्तीति सूत्रार्थः । केन प्रकारेण नारकाणां परस्परं दुःखोत्पादनमिति चेत् ? उच्यतेभवप्रत्ययेन अवधिज्ञानेन सम्यग्दृष्टीनां मिथ्यादर्शनोदयात् विभङ्गनाम्ना अवधिना विप्रकर्षादेव दुःखहेतुपरिज्ञानाद् दुःखमुत्पद्यते । समीपागमने चान्योन्यविलोकनात् प्रकोपाग्निर्जाज्वल्यते । पूर्वजन्मानुस्मरणाच्च अतितीव्रानुबद्धवैराश्च भवन्ति । कुर्कुरगोमायुप्रभृतिवत् २० ३स्वाभिघाते प्रवर्तन्ते। निजविक्रियाविहितलोहधनकुन्ततोमरशक्तिभिण्डिमालपरशुवासीख गहलमुसलत्रिशुलशूलछुरिकाकट्टारिकातरवारिखड्डूषकुठारभुसुण्डिशङ्कुनाराचप्रभृतिभिरायुधैः निजपाणिपाददन्तेश्च छेदनभेदनतक्षणकरटनैश्च अन्योन्यस्य अतितीव्रमसातमुत्पादयन्ति । क्रकचविदारणशूलारोपणभ्राष्ट्रक्षेपणयन्त्रपीलनवैतरणीनिमज्जनादिभिश्च दुःखयन्ति । कृत्तिमुत्पाद्य परिधानं ददति । कूटशाल्मलितरौ रोहावरोहणेन घट्टयन्ति । अङ्गारशय्यायां शाययन्ति । २५ तत्पलमुत्पाद्य तमेव खादयन्ति । ताम्रपुसीसकादि उत्काल्य मुखे पादिकां दत्वा पाययन्ति । सन्दंशैलचन्ति । एवं महादुःखं जनयन्ति । अथ किमेतावदेव दुःखोत्पादनमाहोस्विदन्योऽपि कोऽपि दुःखप्रकारस्तेषामस्तीति प्रश्ने योगोऽयमुच्यते १ -मित्युच्य- आ०, २०, द०, ज०। २ -नेऽन्यो- आ., ब०, द०, ज० । ३ स्वामिघाते ता०,व०। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy