________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११५
३३]
तृतीयोऽध्यायः षष्ठे पञ्चसमुझिता खलु भवेल्लच्येव पश्चान्तिमे
___सप्तस्वेवमशीतिरास्पद वां लक्षाश्चतुभिर्युताः॥" [ ] अथ सप्तसु नरकभूमिषु नारकाणां प्रतिविशेष दर्शयन्तिनारका नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥३॥
नारका नरकसत्त्वाः । कथम्भूताः ? नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः । ५ लेश्याश्च कापोतनीलकृष्णाः, परिणामाश्च स्पर्शरसगन्धवर्णशब्दाः, देहाश्च शरीराणि, वेदनाश्च शीतोष्णजनिततीव्रबाधाः, विक्रियाश्च शरीरविकृतयः, लेश्यापरिणामदेहवेदनाविक्रियाः । नित्यमनवरतम् , अशुभतरा अतिशयेन अशुभाः लेश्यापरिणामदेहवेदनाविक्रिया येषां नारकाणां ते नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः । प्रथमभूमौ द्वितीयभूमौ च 'कापोती लेश्या वर्तते । तृतीयभूमावुपरिष्टात् कापोती, अधो नीला लेश्या भवति । चतुर्थी १० भूमौ नीलैव लेश्या भवति । पञ्चम्यां क्षितावुपरिष्टान्नीला लेश्या अधस्तात् कृष्णा । षष्ठ्या धरायां कृष्णव । सप्तम्यां मायां परमकृष्णा लेश्या भवति । सप्तसु भूमिषु क्षेत्रकारणवशात्तीप्राऽसातहेतवोऽशुभतराः स्पर्शरसगन्धवर्णशब्दाः परिणामाः भवन्ति । अशुभनामकर्मोदयात् सप्तस्वपि भूमिषु विकृतिप्राप्ताः कुत्सितरूपा हुण्डकसंस्थाना अशुभतरकाया भवन्ति । तत्र प्रथमभूमौ प्रथमपटले हस्तत्रयोन्नता देहा भवन्ति । ततः क्रमेण वर्द्धमानास्त्रयोदशे पटले १५ सप्त चापानि त्रयो हस्ताः षडङ्गुलयोऽशुभतरा देहा भवन्ति । एवं द्वितीयभूमौ क्रमवृद्धथा एकादशे पटले पञ्चदश चापानि अर्धतृतीयौ करौ भवतः । तृतीयभूमौ नवमे पटले एकत्रिंशच्चापान्येकहस्ताधिकानि भवन्ति । चतुर्थभूमौ सप्तमे पटले द्विषष्टिचापानि द्विहस्ताधिकानि भवन्ति । पञ्चम्यां भूमौ पञ्चमे पटले पञ्चविंशत्यधिकं शतं चापानां भवति । षष्ठ्या भूमौ तृतीये पटले साढे द्वे शते धनुषां भवतः । सप्तम्यां क्षमायां पञ्चशतचापोत्सेधानि शरीराणि २० नारकाणां भवन्ति । ___अभ्यन्तराऽसद्वद्योदये सति चतसृषु भूमिषु नारकाणां बाह्ये उष्णे सति तीब्रा वेदना भवति । पञ्चम्यां भूमौ उपरि द्विलक्षबिलेषु उष्णवेदना भवति । अध एकलक्षबिलेषु तीब्रा शीतवेदना भवति । अत्र तु पञ्चम्यां भूमौ मतान्तरमस्ति । उपरि पञ्चविंशत्यधिकद्विलक्षबिलेषूष्णवेदना, एकलक्षविलेषु पञ्चविंशतिहीनेषु शीतवेदना भवति। षष्ठ्यां सप्तम्यां च २५ भूमौ तीव्रा शीतैव वेदना वर्तते।
१ कापोतले- आ०, ब०, द०, ज० । २ -भतरा का- आ०, व०, ३०, ज० । ३ -तरदेभा०, ब०, द०, ज० । ४-तृतीयकरो ता० । ५ पंचमभू- भा०, ज०। ६ . पंचमपुढवीए तिचउक्कभागतं। अदिउण्हा णिरयबिला तट्ठियजीवाण तिव्वदाधकरा ॥" -तिलोयप० २।२९ । ७ अत्र 'पञ्चविंशतिसहस्राधिकद्विलक्षविलेषु' इति पाठेन भाव्यम् । ८ अत्र 'पञ्चविंशतिसहस्रहीनेषु' इति पाठः समुचितः ।
For Private And Personal Use Only