________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४ तत्त्वार्थवृत्ती
[३२ उज्ज्वलितः । अष्टमः संज्वलितः। नवमः सम्प्रज्वलितः। चतुर्थनरके सप्त प्रस्ताराः-प्रथम आरः। द्वितीयस्तारः। तृतीयो मारः। चतुर्थो वर्चस्कः । पञ्चमस्तमकः । षष्ठः खडः । सप्तमः खडखडः । पञ्चमनरके पश्च प्रस्तारा:-प्रथमस्तमः। द्वितीयो भ्रमः । तृतीयो झषः । चतुर्थोऽन्धः । पञ्चमस्तमिस्रः। षष्टनरके त्रयः प्रस्तारा:-प्रथमो हिमः । द्वितीयो वर्दलः । तृतीयो लल्लकः । सप्तमनरके एकः प्रस्तार:-अप्रतिष्टानः । इत्येकोनपञ्चाशत् प्रस्ताराः सप्तनरकाणां भवन्ति । एषां सप्तानाश्च नरकाणां नामान्तराणि च भवन्ति । प्रथमा भूमिः घर्मा । द्वितीया वंशा। तृतीया शैला शिला वा । चतुर्थी अजना। पञ्चमी अरिष्टा । षष्ठी मघवी। सप्तमी माधवी ।
अथ रत्नप्रभादिषु नरकेषु ये स्थिताः प्रस्तारास्तेषु त्रयोदशादिसप्तसु स्थानेषु यानि १० बिलानि वर्तन्ते तेषां प्रतिनरकं संख्या कथ्यते
तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरकशत
___ सहस्राणि पञ्च चैव यथाक्रमम् ॥ २॥ तासु रत्नप्रभादिषु सप्तसु भूमिषु यथाक्रमं यथासंख्यं त्रिंशत्पञ्चविंशतिपश्चदशदशत्रिपञ्चोनेकनरकशतसहस्राणि भवन्ति। उपञ्च चैव भवन्ति । नरकशतसहस्रशब्दः प्रत्येक १५ प्रयुज्यते, तेनायमर्थः--त्रिंशञ्च पञ्चविंशतिश्च पञ्चदश च दश च त्रीणि च पञ्चभिरूनमेकं
च त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकानि, तानि च तानि नरकाणां बिलानां शतसहस्राणि लक्षाणि तानि तथोक्तानि । तथा हि-त्रिंशन्नरकशतसहस्राणि त्रिंशल्लक्षनरकाणि रत्नप्रभायां प्रथमभूमौ भवन्ति । पञ्चविंशतिनरकशतसहस्राणि पञ्चविंशतिलक्षबिलानि
शर्कराप्रभायां द्वितीयभूमौ भवन्ति । पञ्चदशशतसहस्राणि पश्चदशलक्षबिलानि वालुकाप्रभायां २० तृतीयभूमौ भवन्ति । दशनरकशतसहस्राणि दशलक्षबिलानि पङ्कप्रभायां चतुर्थभूमौ भवन्ति ।
त्रीणि नरकशतसहस्राणि त्रिलक्षबिलानि धूमप्रभायां पञ्चमभूमौ भवन्ति । पञ्चोनमेकं नरकशतसहस्र पञ्चहीनेकबिललक्षं तमःप्रभायां भूमौ भवन्ति । पञ्चैव च बिलानि महातमःप्रभायां तमस्तमःप्रभायां सप्तमभूमौ भवन्ति । एवमेकत्र चतुरशीतिलक्षाणि भवन्ति । भवति सत्र श्लोकः"त्रिंशच्चैव तु पञ्चविंशतिरतः पश्चाधिकाः स्युर्दश
स्युस्तुर्ये दश पञ्चमे निरयके तिस्रश्च लक्षाः मताः ।
१ चर्चस्कः आ०,८०,ब०,ज० । २ “धम्मावंसामेघाजणारिद्वाणउन्ममघवीओ । माघविया इय ताणं पुढवीणं गोत्तणामाणि ।।" -तिलोय० ११५३ । “धर्मा वंशा शिलाख्या च अञ्जनारिष्टका तथा । मघवी माधवी चेति यथाख्वातमुदाहृताः ॥” –धराङ्गच० १।१२। ३ पञ्चैव आ०, द०, २०, ज०, २०१४ पञ्चैव बि- आ०, द.,ब०, ज० ।५ -न्ति त्रिंश- आ०, ब०, ८०, ज० ।
For Private And Personal Use Only