SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३॥१] तृतीयोऽध्यायः ११३ स्वरूपमेतत्पवमानगोचरं विचारितं चारुचरित्रतेजसाम् । विचिन्त्य सिद्धान्प्रणमन्ति ये निशं व्रजन्ति ते शं श्रुतसागरेडितम् ॥१३॥" अथ सप्तानां नारकाणां भूमिबाहल्यमुच्यते। तथा हि "लक्षमेकमशीतिश्च सहस्राण्यादिमेदिनी । बाहल्यं योजनानान्तु भागास्तत्र त्रयः स्मृताः ॥ तत्पोडशसहस्राणि खरक्ष्माभाग उन्नतः । जम्बालबहुलो भागोऽप्यशीतिश्चतुरुत्तरम् ॥ अशीतितत्सहस्राणि भागोऽम्बुबहुलाभिधः । त्रिष्वधश्वोपरि त्याज्यं तत्सहस्रं च पञ्चसु ।। रक्षोऽसुरा द्वितीये स्युराद्ये स्युभौंमभावनाः । इतरे तु तृतीये तु नारकाः प्रथमे मताः॥ द्वात्रिंशत्तत्सहस्राणि वंशा भूरुन्नता मता । शैलाष्टाविंशतिं ह्युच्चाश्चतुर्विंशतिमञ्जना ॥ अरिष्टा विंशति तानि मघवी षोडश स्मृता। माधव्यष्टोन्नता वातैत्रिभिः प्रत्येकमावृताः॥ 'कण्डरादिकजन्तूनां छत्रकच्छिद्रसन्निभाः । नारकोत्पादभूदेशाः पतन्तीतो ह्यधोमुखाः ॥" [ ] अथ सप्तनरकप्रस्तारनामानि कथ्यन्ते तत्र तावत्प्रथमनरकप्रस्तारास्त्रयोदश-प्रथमः सीमन्तकः प्रस्तारः। द्वितीयो नरकनामा प्रस्तारः । तृतीयो रोरुकः प्रस्तारः। चतुर्थो भ्रान्तः । पश्चम उद्धान्तः। षष्ठः सम्भ्रान्तः। सप्तमोऽसम्भ्रान्तः । अष्टमो विभ्रान्तः। नवमस्त्रस्तः । २० दशमस्त्रसितः। एकादशः वक्रान्तः । द्वादशोऽवक्रान्तः। त्रयोदशो विक्रान्तः। द्वितीयनरकप्रस्तारा एकादश-प्रथमः स्तवकः । द्वितीयः स्तनकः । तृतीयो नकः । चतुर्थोऽमनकः । पञ्चमो घाटः। षष्ठोऽसंघाटः । सप्तमो जिह्वः । अष्टमो जिह्वकः । नवमो लोलः । दशमो लोलुकः" । एकादशः स्तनलोलुकः"। "तृतीये नरके नव प्रस्ताराः-प्रथमस्तप्तः। द्वितीयस्तपितः । तृतीयस्तपनः। चतुर्थस्तापनः । पञ्चमो निदाघः । षष्ठः प्रज्वलितः । सप्तम २५ १ -तं वासचरि-- आ०, ब०, द०, ज० । २ -तिचतुरुत्तरः ज० । -तिश्चतुरुत्तराः प० । ३ द्वात्रिंशच्च स- आ० । ४ -मञ्जसा आ०, २०, ब०, ज०। ५-शतिस्तानि आ० । ६ कजराता० । ७ -मः सूरकः ता०,व० । ८ संस्तपनः ज० । संस्तनः आ०, द०।९ वनकः आ०, द०, ज० । १० लोलुपः ता०, ३० । ११ -लोलुपः ता०, व०। १२ तृतीयनर -आ०, २०, ५०, व०, ज० । १५ For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy