________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
तत्त्वार्थवृत्तौ
: [३१ "धनोदधिजगत्प्राणः पूर्वो लोकस्य वेष्टनम् । घनः प्रभजनो नाम द्वितीयस्तदनन्तरम् ॥ १॥ तनुवातमुपर्यस्य त्रैलोक्याधारशक्तिमत् । वाता एते, स्थितिस्तेषां कथ्यमाना निशम्यताम् ॥ २॥ घनोदधिमरुत्तस्य वर्णो गोमूत्रसन्निभः । घनाशुगस्य वर्णोऽस्ति मुद्गवर्णनिभः स च ॥३॥ तनुर्गन्धवहो नानावर्णवान् परिकीर्तितः । एते त्रयोऽपि वृक्षस्य त्वग्वा लोकोपरि स्थिताः ॥ ४ ॥ लोकमूले च पार्श्वेषु यावद्रज्जु मरुत्त्रये । विंशतिश्च सहस्रणि, बोहल्यं योजनैः पृथक् ॥ ५ ॥ सहस्राणि तु सप्तैव पञ्च चत्वारि च क्रमात् । बाहल्यं गन्धवाहानां प्रणिधौ सप्तमक्षितः ॥६॥ नभस्वतां 'क्रमाद्धीयमानानां बाहलं मतम् । तिर्यग्लोके व्रताब्ध्यग्निसहोजनैः पृथक् ॥ ७ ॥ वर्धन्ते मातरिश्वानः क्रमाद् ब्रह्मसमाश्रयाः । बाहलाः सप्त पञ्चात्र तानि चत्वारि च स्मृताः ॥ ८॥ सदागतित्रयं तस्माद्धीयमानं क्रमागतम् । . पञ्च चत्वारि च त्रीणि तान्यूचे बहलाश्रितम् ।। ९ ॥ स्पर्शनो लोकशिखरे, द्विक्रोशः स्याद् घनोदधिः । क्रोशैकबहलो विद्भिः घनश्वसन उच्यते ॥ १० ॥ चतुश्चापशतैश्चापि सपादैरून इष्यते । क्रोशैकस्तनुवातस्य बाहल्यं शल्यहृन्मते ॥ ११ ॥ तस्योपरितने भागे सिद्धा जन्मादिवर्जिताः । तिष्ठन्ति ते निजं स्थानं कचिद्यच्छन्तु मेऽचिताः ॥ १२ ॥
१ बाहुल्यैर्यो- आ०, ५०, १० । बाहल्यैर्यो- आ०, ज०, ३०। २ क्रमात्रये मानानां मा०, ब०, ६०, ज०। ३ व्रतानि पञ्च, अध्यश्चत्वारः, अग्नयस्त्रयः ।
For Private And Personal Use Only